________________
१७८
महोपाध्यायधीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
बुधानां-पण्डितानां महिना-महत्वेन सहितः यद्वा प्राप्तरूपेण-मनो. ज्ञेन रम्येनेत्यर्थः महिना-उत्कर्षेण सहितः प्रज्ञा: युद्धीर्दधतां राज्ञा मान-सन्मानं न एतिस्मेति काका एतिस्मैवेत्यर्थः । वेदिःस्थात्पण्डिते पुमान् इति प्राप्तरूपो ज्ञरम्ययोरिति च मेदिनी प्राप्तरूप -स्वरूपाऽभिरूपा बुधमनोज्ञयोरित्यमरः ॥ २० ॥ या नित्ययौवनतया वसुधा-प्रतीता,
पुष्पान्विताऽऽशु फलिता सुतरत्नजात्या । व्यूढा भूजाबलवशावशाऽमुनासौ,
सेवे स्वतः स्वरसतः पुरुषोत्तमं तम् ॥ २१ ॥ अन्वयः-या नित्ययौवनत या वसुधाप्रतीता अवशाऽमुनाभुजाबलवशात् न्यूढ़ा ततः पुष्पान्त्रिता सुतरत्नजात्या आशुफलिताऽसौ स्वतः स्वरसतः तं पुरुषोत्तम सेवे । पक्षे-या वसुधा नित्ययौवनतया प्रतीता पुष्पान्विता सुतरत्नजात्याऽऽशुफलिताऽवशाऽसौ अमुना भुजावल यशात् व्यूढा स्वतः म्बरसतः तं पुरुषोत्तम सेवे ॥ २६ ॥
व्याख्या-या द्रौपदी नित्ययौवनतया नित्यं-चिरस्थायि यौ वनं-तारुण्यं यस्याः सा नित्ययौवना तद्भावस्तत्ता तया सदातनतारुण्यशालितयेत्यर्थः वसुधाप्रतीता भूतलेप्रसिद्धा अवशा स्वयंवरा सती अमुना-पाण्डवेन भुजावलवशाखबाहुवीर्यप्रभावात् व्यूढा-परि. णीता-विवाहिता इति यावत् ततः पुष्पान्विता-पुष्पम् आर्तवं स्वीधर्म इति यावत् तत्सहितो सती मुतरत्नजात्या-नृपरत्नजन्मना आशु फलिता-फलवती असौ द्रौपदी स्वतः स्वयमेव स्वरलतः अकृत्रिम निजानुरागात् तं प्रसिद्धं पुरुषोत्तमं नरमत्तमं पाण्डवं सेवे-भेजे ।
अन्यपक्षेषु-या वसुधा पृथ्वी नित्ययौवनतया शस्याद्युत्पादने सर्वदेव युवतीक्समर्थतयेत्यर्थः प्रतीता-विश्रुता पुष्पाऽन्विता-पुष्पेन