________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-४
१७७
नरान्वयिवन्धुरूपाणां विशेषणानामयं कर्मधारयः शल्यं तु न स्त्रियां शङ्को क्लीबं श्वेडे-पु-तोमरे इति. पाना वाताण्ड-पूतेषु पाने पातरिकीर्तितः इति च मेदिनी । तेऽपरे च स्वमानमपहाय विमानरत्नारूढाः अस्य श्रीविश्वसेनादेः वरिवस्यया समीयुरित्यर्थः ॥ १९ ॥ या वेदिजातिरुचिता कृतकर्मयोगा
ल्लेभे प्रपञ्चरमणैर्विषयोपभोगम् । स-प्राप्तरूपमहिमा न हि माननेति,
प्रज्ञा-विशेषवशतो दधता स्म-राज्ञाम् ॥२०॥ अन्वयः-या वेदिजाऽतिरुचिता कृतकर्मयोगात् प्रपञ्चरमणैः विषयोपभोगं लेभे सप्राप्तरूपमहिमा सा स्मराज्ञां दधतां राज्ञां प्रज्ञाविशेषवशत: मानं न पति । पक्षे या वेदिजातिः उचिता प्रपञ्चरमणैः विषयोपभोगे लेभे कृतकर्मयो. गात् सप्राप्तरूपमहिमा प्रज्ञाः दधतां राज्ञां मानं न एतिस्मेति काकुः ॥ २० ॥
व्याख्या-या वेदिजा द्रौपदी वेद्याः होमवेदितो जायते इति व्युत्पत्तेः अतिरुचिता-शोभिता असीमशोभाशालिनीति यावत् कृतकर्मयोगात् प्राकृतिकर्मवशात् प्रपञ्चरमणैः-प्रकृष्टाः पञ्चपञ्चसंख्यकाः रमणाः-पतयस्तैः विषयोपभोग-सांसारिकविषयानुशीलनजन्यसुखानुभवरूपं भोगं लेभे-प्राप्तवती सप्राप्तरूपमहिमा-प्राप्तो यो रूपस्यसौन्दर्यस्य महिमा-आतिशय्यं धारयतां राज्ञां-नृपाणां विषये प्रज्ञाविशेषवशतः बुद्धिविशेषवशात् मान-विनयाभावं न एति-प्राप्नोति नम्रतया वर्तत इत्यर्थः॥
अन्यपक्षेषु-या वेदिजातिः-वेदयः-पण्डिताः तेषां जातिःसामान्यम् उचिता-सत्कारयोग्या प्रपञ्चरमणैः-विस्तृतक्रीड़ाभिः अनायासेनेति भावः विषयोपभोग-देशकार्य स्वामित्वं लेभे । कृतकर्मयोगात्-मिलनात् संगमादित्यर्थः सप्राप्तरूपमहिमा प्राप्तरूपाणां