________________
१०६
महोपाध्याय श्रीमेषविजयगणिविरचिते सक्षसन्धानमहाकाब्बे
वरिवस्यमा समीयुः। पले-तत इमे सुता जाताः अशरसंख्ययाप्याः शल्यारिपावनि नरान्त्रयिबन्धुरूपाः (शेष प्राग्वत) ॥ १९ ॥
व्याख्या-ततः तदनन्तरं तस्मात् पाण्डुराजाद्वा इमे वक्ष्यमाणाः शरसंख्यया-शराः पंच तत्संग्ख्यया आप्याः प्राप्याः पञ्चसं. ख्याका इत्यर्थः शल्यारि पावनि नरा.ऽन्वयिवन्धुरूपा:-शल्यारि:--- युधिष्ठिरः, पवनस्यापत्यं पावनिः-भीमः, नरः-अर्जुन:, अन्वयिबन्धअन्वयिनोः संबद्धरूपयोः-अश्विनीकुमारयोः बन्धू-पुत्रौ यद्वा अन्वयिनौ यमजतया समानोदरसम्बद्धो बन्धू-भ्रातरौ नकुल-सहदेवी तद्रूपाः सुताः पुत्राः जाताः-समजनिषत अपिश्चार्थो भिन्नक्रमश्च तथा ते-शल्यारिप्रमुखाः अपरे-अन्ये च जनाः स्वमानं-स्वमहत्त्वाभिमानम् अपहाय-परित्यज्य विमानन्नारूढाः-श्रेष्ठविमानमारूढाः सन्तः अस्य-वासुदेवस्य नेमिनाथस्य वा पाण्डोरेव वा वरिवस्यया-परिचर्यया हेतुना शुश्रूषार्थमित्यर्थः समीयुः सम्यग्गतवन्तः नरोऽजे मनुजेर्जुने इति मेदिनी. बन्धुशब्दस्य भातृ-पुत्रेत्येतदुभयवाचकत्वं शब्दस्तोभमहानिधौ द्रष्टव्यम् ।
__ अन्यपक्षेषु-ततः तस्मात् श्रीविश्वसेनादिनृपात् इमे-वक्ष्यमाणगुणाः सुताः जाताः काहशा इत्याह-अशरसंख्ययाप्या:-न शरैः बाणैः संख्ये-युद्धे याप्या:-विद्राव्याः पलायनाः बाणयुद्धेऽधमा वा इति ते तथोक्ताः। शल्यारिपात्रनिनरान्वयिबन्धुरूपाः-शल्यानिवाणान् तोमरान् वा इग्रति ऋच्छन्ति वा-प्राप्नुवन्ति तच्छीलाः शल्यारिणः शराभ्यासिन इत्यर्थः शूरा इति यावत् । पावयतीति पावन:-जगत्पावित्र्य कारकः यद्वा पं-पातारमपि अति-रक्षतीति पावन:-शरण्यस्यापि शरण्य इत्यर्थः श्रीविश्वसेनादिस्तस्थापत्यानि पावनयः नरान्वपिबन्धुरूपाः-नराणां-मानवानाम् अन्वयिबन्धुरूपाः सोदरभ्रातृकल्पास्तयाऽनुपाहिगोऽनुरागिणवेत्यर्थः शल्यारि पावनि