________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४
अन्वयः -- यस्याः स्तनौ स्वरुचा अतिगुरू (सा) पृथा माद्री (घ) अस्य कान्ता अतिशये मनोऽनुरागे ( वर्तमाना ) घरासुरपतेः अस्य राज्यलक्ष्म्या दृष्टा ( अस्य मनोऽनुरागेऽतिशये सति दृष्टाधरा सुरपतेः राज्यलक्ष्म्या) सर्व सुपर्वभवगम् अपायकार | पक्षे यस्या अतिगुरू स्वनौ स्वरुचा हिमाद्री (अतिशयाते ) साऽस्यकान्छा पृथ अतिशये मनोऽनुरगे ( शेषं पूर्ववत्) | १८
व्याख्या -- यस्याः स्तनौ = वक्षोजौ स्वरुचा = निजदीप्त्या अतिगुरू = अतिविशालौ गुरु = महत् ( बिल्वफलादि ) समतिक्रमणशीलौ वा तादृशी पृथा कुन्ती माद्री च अस्य पाण्डुराजस्य कान्तान्भार्या अतिशये= अतिमात्रे मनोऽनुरागे = पत्युवित्तप्रीतौ वर्त्तमाना घरामुरपतेः महीमहेन्द्रस्य अस्य पाण्डुमहाराजस्य राज्यलक्ष्म्या - राजश्रिया दृष्टा सती कृताभिषेका सतीति भावः यद्वा यस्य =पाण्डोः मनोऽनुरागे= मनः प्रीतौ सति दृष्टाधरा- चुम्बितुं निरीक्षितोष्टदेशा सती सुरपते:= इन्द्रस्य राज्यलक्ष्म्याः खाराज्यश्रियः सर्वं सुपर्व भवगर्व = देवलोका ऽभिमानम् अपाचकार= दूरयामासेत्यर्थः ।
१७५
अन्यपक्षेषु - यस्याः राज्ञ्याः अतिगुरू = अतिपीवरौ स्तनौ स्वरुचास्वकीयच्छद्रया स्वीयौन्नत्यगुणेन निजकान्तिगुणेन वा हिमाद्री = हिमपर्वतौ अतिशयाते इति शेषः सा तादृशी अस्य - पूर्वोक्तस्य राज्ञः कान्ता स्त्रीरत्नम् पृथौ - महति अतिशये मनोऽनुरागे - पति विषयकचिचासङ्गे सति शेषं पूर्ववत् ॥ १८ ॥
जाताः सुतास्तत इमे शरसंख्ययाप्या, शल्यारिपावनिनरान्वयिबन्धुरूपाः ।
तेऽपि स्वमानमपहाय विमानरत्ना
रूढाः समीयुरपरे वरिवस्ययाऽस्य ॥ १९ ॥
अन्वयः -- ततः इमे शरसंख्ययाऽऽप्याः शल्यारि - पावनि-नरा- इन्वथिव न्धुरूपाः सुताः जाता: । ते ऽपरे च स्वमानमपहाय बिमानरस्नारूढाः अस्य