________________
1७v
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
व्याख्या--- पाण्डः तदाख्यः राजापि यशोभिः कीर्तिभिः कान्त्या च अमितः सर्वतोभावेन समशोभि अशोभिष्ट । स कीदृश इत्याह-सोमवपुषा-उमया कीर्त्या शिवपक्ष पार्वत्या सहितं सोम= सकीर्तिकं सपार्वतीकं च तादृशेन वपुषा-शरीरेण वृषभासनामा वृषभासनस्य शिवस्येव आभा शोभा यस्य सः । तथा अनुभाषिविदुरेण-अनु-पश्चात् भवति-जायते इति भावा-जन्माऽस्यास्तीति वा अनुभावी अनुजः तेन विदुरेण-तदाख्येन सह प्रीत्या ऽनुरागेण रिंम:-रन्तुमिच्छु: किन्तु आदिजन्मधृतराष्ट्रभुवा-आदिजन्मनः अप्रजात् धृतराष्ट्राद् भवति-जायते इत्यादिजन्मधृतराष्ट्रभूस्तया अनीत्या अन्यायेन दुरोदरेण च अरिरंसु निविवर्तिषुरित्यर्थः ।। ___ अन्यपक्षेषु-राजापि-श्रीविश्वसेनादिनृपोपि अभितः विश्वग्ठ्यायिभिः यशोभिः पाण्डुः गौरः कान्त्या सोमवपुपा चन्द्रवद्रमणीयशरीरेण च समशोभि । स कीदृगित्याह-वृषभासनाभः वृषस्यधर्मस्य भासनया प्रतिभासनेन भाति शोभते इति सः। किश्चासौ अनुभाविविदुरेण अनुभवशीलधीरेण प्रभावशालिनागरेण वा सह प्रीत्याप्रेम्णा । अनीत्या=न सन्ति ईतयो यस्यां साऽनीतिस्तया तादृश्या आदिजन्मधृतराष्ट्रभुवा आदिजन्मनावपूर्वजेन धृतस्यवायत्तीकृतस्य राष्ट्रस्य-देशस्य भुवा-पृथिव्या च रिरंसुः । दुरोदरेण= द्यूतकारेण द्यूतेन वा उपलक्षणमिदं व्यसनमात्रस्य अरिरंसुः ।। १८ ॥ यस्यास्तनावतिगुरू स्वरूचा हिमाद्री,
कान्ता पृथावतिशयेऽस्य मनोनुरागे ! दृष्टा-धरा-सुरपतेरपि राज्यलक्ष्म्या ,
सर्व सुपर्वभवगर्वमपाचकार ॥ १८ ॥