________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १७३ अन्यपक्षेषु-भूः चित्रवीर्य-विस्मयनीयविक्रमशालिन नपं अधि. गत्य रसेन रागेण कलधौतमुखेन्दुहासं-कलधौतं-सुवर्ण रजतं च तन्मुखे यस्य स कलधौतमुखः स चासौ इन्दुहासःखगस्तम् प्रादुश्च. कार श्रीमहषभपक्षे भरतस्य चक्रवर्तित्वात् शान्तिनाथस्थापि चक्रित्वात् वासुदेवानां च खगोत्पत्तिः प्रसिद्धैव । कलधौतं सुवणे स्याद्रजते च नपुंसकमिति मेदिनी । खङ्गे तु निस्त्रिंश-चन्द्रहासा-ऽसि-रिष्टयः इत्यमरः किञ्च-कुलेषु-जनपदेषु गंगा-सिन्ध्वोस्तीरदेशेषु वा प्रकृतेःखभावत एव नवनवा नव-नवसंख्यकाः नवा नवीनाः कोशा = अर्थराशयो बभुः विरेजिरे । तत् एतत्सर्व अत्रभरतं हरिवंशभुवि हरिः सूर्यः नामैकदेशग्रहणे नामग्रहणात् सूर्य: सूर्ययशाः भरतपुत्र. स्तस्यवंश इक्ष्वाकुवंशस्तस्मिन् जाते इति भरत-शान्त्योः । रामपक्षे सूर्यवंशसमुद्भुते । कृष्णपक्ष हरिवंश यादवकुलं तज्जाते इत्यर्थः क्षमापेराज्ञि सति न्याय्य युक्तम् । कुलं जनपदे गोत्रे सजातीयगणेऽपि चेति मेदिनी । हरिश्चन्द्रा ऽर्क-वाता- ऽश्व-शुक भेक-यमा ऽहिषु। कयौ सिंहे हरेऽजेंऽशी शके लोकान्तरे पुमान् वाच्यवत् पिङ्ग-हरिरिति मेदिनी ॥ १६ : पाण्डुर्यशोभिरभितः समशोभि कान्त्या,
राजापि सोमवपुषा वृष-भासनाभः । प्रीत्याऽनुभाविविदुरेण दुरोदरेणा
नीत्यादिजन्मधृतराष्ट्रभुवा-रिरंसुः ॥ १७ ॥ अन्वयः--- पाण्डुः राजापि यशोभिः कान्त्याऽभितः समशोभि । सोम. वपुषावृषभासनाभः अनुभावि विदुरेण प्रीत्या रिरंसुः आदिजन्मवृतराष्टभुवानीत्या दुरोदरेणचारिरंसुः । राजापि अभितः यशोभिः पाण्डुः कान्त्या सोमवपुषा च समशोभि । वृषभासनाभः, अनुभावि विदुरेण प्रीत्याः । अनीत्या भादिजन्मतराष्ट्रभुवा च रिरंसुः दुरोदरेण अरिरंसुः ॥ १७ ॥