________________
१७२
महोपाध्यायश्री मेधविजयगणिविरचिते सप्तसन्धानमहाकाम्बे
अन्यपक्षे तु-कुरुनामवद्गुरुप्रसिद्धया उपलक्षितं क्षेत्र-तत्तद्देशः रराज तत्रापि वपुरश्चितेभ्यं तत् गजपुरं-पुरेषु गज इवेति तत् पुरश्रेछमित्यर्थः मुख्यनगरमिति यावत् । तदीशः श्रीशान्तनुन्नयवनप्ल. वना श्रीशान्तरसेन नुन्नं-फैटितं निराकृतमित्यर्थः यवनानां प्लवन ससंभ्रमागमनं येन स तथोक्तः । पुनः सभीष्मः भीतिहेतुहे तिततिसहितः । वृषभमोररुचिः वृषेण धर्मेण सौररुचिः सौरीचासौ रुचिथति सौररुचिरिव रुचिर्यस्य स सौररुचिः सूर्यतुल्यकांतिः । शुक्रले मूषके श्रेष्ठे सुकृते वृषभे वृष इत्यमरः ॥ १६ भूश्चित्रवीर्यमधिगत्य नृपं रसेन,
प्रादुश्चकार कलधौतमुखेन्दुहासम् । कोशा बभुर्नवनवाः प्रकृतेः कुलेषु,
न्याय्यं तदत्र हरिवंशभुवि क्षमापे ॥ १६ ॥ अन्वयः-- भूः चित्रवीर्य नृपम् अधिगल्य रसेन कलधौतमुखैन्दुहासं प्रादुश्चकार प्रकृतेः कुलेषु नवनवाः कोशा बभुः अत्र हरिवंशभुवि क्षमापे तत् न्याय्यम् ॥ १६ ॥ ___ व्याख्या-भूः-पृथ्वी तात्स्थ्यलक्षणया भूतलस्थो लोक चित्र वीर्य विसायावह पराक्रमशालित्वात्तदाख्यं नृपं राजानम् अवाप्य रसेन प्रेम्णा कलधौतमुखेन्दुहासं-कलधौन-रजतं तत्सच्छायेन मुखेनवदनेन इन्दोः चन्द्रमसोऽपि हास-परिहासं प्रादुश्चकार आविष्करोतिस्म । किश्च प्रकृतेः प्रजायाः कुलेषु समुदायेषु नवनवा: अपूर्वाः विलक्षणाः कोशा:-धान्यादीनां प्रत्याकाराः बभुः शुशुभिरे । अत्रअस्मिन् क्षेत्रे हरिवंशभुविचन्द्रवंशसमुद्भवे क्षमापेराज्ञि चित्रवीर्ये सति तत्-पूर्वोक्त सर्व न्याय्य न्यायादनपेतं युक्तमित्यर्थः उचितमिति यावत् चित्रवीर्ये राज्ञि सर्व सम्भवतीति भावः ।