________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४
१७१
श्रीशान्तनुन्नयवनप्लवनः सभीष्मः,
स ग्रीष्मवद् वृषभसौररुचिस्तदीशः ॥ १५ ॥ अन्वयः-गुरुप्रसिद्धया कुरुनाम क्षेत्रं (कुरुनाम गुरुप्रसिद्वधा उपलक्षितं क्षेत्रं ) राज तत्रापि वपुरचितेभ्यं तत् गजपुरम् (अभूत्) तदीशः श्रीशान्तनुत् ( मासीत् ) नयवनप्लवन: सभीष्मः ग्रीष्मवद् वृषभसौररुचिः । पक्षान्तरे कुरुनाम गुरुप्रसिद्धया उपलक्षित क्षेत्र रराज । तदीश: श्रीशान्तनुन्जयवनप्लवनः ( शेषं पूर्ववत ) ॥ १५ ॥
व्याख्या-क्षेत्रमिति इतः परे श्लोकाः कृष्णचरितान्तर्गतपा. ण्डवचरित्रांशे स्पष्टार्थाः अन्येषु प्रकृतकाव्यवर्णनीयमहापुरुषसप्तकेषु मन्दं प्रकाशं पातयन्ति तत्र तावदापाततः प्रतीयमानस्पष्टार्थोऽभिलिख्यते,गुरुप्रसिद्धयामहत्याप्रसिद्धयाख्यात्या यद्वा गुरोः कौरववंशमूलभूत कुरुनामनृपश्रेष्ठस्य प्रसिद्धया कुरुनामक्षेत्र देशः यद्वा कुरुनाम: गुरुप्रसिद्धया इति समस्तं तस्य कुरु इति नाना या गुर्वी महती प्रसिद्धिः ख्यातिः प्रतिष्ठा वा तया उपलक्षितं क्षेत्र-सिद्धस्थानं देश इति यावत् रराज-शुशुभे । तत्रापि तसिन्नपिदेशे वपुरश्चितेभ्य वपुषा-शरीरेण अश्चिताप्रशस्ता इभ्या यत्र तत्तादृशं तत्-प्रसिद्धम् गजपुरं-नागपुरं हस्तिनापुरमिति यावत् अभूत् । तदीशः तस्य-गजपुरस्य ईश: राजा सः प्रसिद्धः, श्रीशान्तनुत्-तदाख्यः आसीदिति शेषः स कीदृश इत्याह-नयवनप्लवना नया न्यायः एव वनं-सलिलं तत्र प्लवतेस्नातीति सः न्यायजललायीत्यर्थः । नीतिजलसंतरणशील इति यावत् सभीष्मा भीष्मकुमारसहितः। ग्रीष्मवत्- निदाघर्तुरिव वृषमसौरररुचि वृष वृषसंक्रान्तौ भातीति वृषभा तादृशी सौरी-सूर्यसम्बन्धिनी रुचिः कान्तियत्रेति ग्रीष्मपक्ष। राजपक्षे तु वृषः कामः स इव भातीति वृषभः सुवंति-कर्मणिलोकान्प्रेरयंतीति सूराः पण्डितास्तेषां समूहः सौरस्तसिन् रुचिप्रीतिर्यस्य स सौररुचिः वृषभचासौ सौररुचिश्चेति स तादृशः।