________________
१७.
महोपाध्याय श्रीमेधविजयगणिविरचिते सप्लसन्धानमहाकाव्ये
नृणां गणो निरवधिर्धनवर्धनेन,
प्राप्तावधि जनतो जिनराजिराजाम् । कार्पण्यमाश्रयति नैव मनाक स्पण्यः,
प्रावीण्यपुण्यविधिनैव धुनोति पङ्कम् ॥ १४ ॥ अन्वयः-नृगांगण: धनवर्धनेन निरवधिः जिनराजिराजां भजनतः प्राप्तावधिः । सपण्यः मनाक कापण्य नैवाश्रयति प्रावीण्य पुण्यविधिनैव पकं धुनोति ॥१४॥
व्याख्या---नृणांगणः जनसमुदायः धनवर्द्धनेन-धनधान्यादि. समृद्धथा निरवधिः-अनन्तः धनिक श्रेण्यां सर्वाग्रगण्य इति भावः अथ च अबधिरहितोऽपि जिनराजिराजां-जिनेन्द्र देवानां भजनतः आराधनायाः प्राप्तावधिः-अवधि प्राप्तः सावधिरिति विरोधःप्राप्तः अवधिःअवधान-मनोयोगविशेषः (यद्वशान्मनो विषयान्तरतो निवर्तते) येन स इति परिहार: । अवधिस्त्ववधाने स्यात्सीम्निकाले बिले पुमानिति मेदिनी। एवं सपण्यापण्येन-स्तोतव्येन स्वेष्टदेवेन हृदि सहितः यद्वा पण्यैः व्यवहार्यवस्तुभिः सहितः । किन्तु मनाक्-अल्पमपि कार्पण्यं कृपणताम्-उचितव्ययविमुखतया धनसंचयेच्छां मितम्पचत्वमिति यावत् यद्वा कार्पण्यं दैन्यं नैव आश्रयति-नावलम्बते । किश्च प्रावीण्यपुण्यविधिनैव प्रावीण्येन नैपुण्येन विज्ञतयेति यावत् पुण्यानांधर्माणां विधिना-विधानेन अनुष्ठानेनेति यावत् यद्वा पुण्येन-मनोक्षेन विधिना कर्मणा एक 'विधिविधाने दैवे चेत्यमरः पुण्यं धर्म मनोज्ञेऽपीति विश्वः । पत-पापं दुष्कृतमिति यावत् पङ्कोऽस्त्रीकर्दमे पापे इति मेदिनी धुनोति-क्षालयति दुरयतीत्यर्थः ।। १४ ।। क्षेत्रं रराज कुरुनाम गुरुप्रसिद्धया,
तत्रापि तद्गजपुरं वपुरञ्चितेभ्यम् ।