SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-४ १६७ नरश्रेष्ठाः मन्त्र्यादयः नागाः हस्तिनः तुरगा: अश्वास्तैः इन्द्रपक्षे पुन्नागः पाण्डुनागः-श्वेतहस्ती ऐरावत इति यावत् नागाः-मेघा वाहनीभृताः 'तुरापाणमेघवाहन' इतीन्द्र पर्यायेऽमरोक्तेः तुरगः-अश्वः उच्चैःश्रवास्तैश्च तथा दारलब्ध्या-स्त्रीरत्नप्राप्त्या, इन्द्रपक्षे उदारल ध्या-महत्या शक्त्येत्यर्थः उपलक्षितः भूचक्रचक्रमणकृत्-विजयार्थ पृथ्वीमण्डले विहारकरणशीलोऽभूत् ।। ९ ।। एतत्प्रयाणसमये नमयन् शिरांसि, शेषो विशेषभृदशेषबलादुवाह । भूमि चलाचलतयोच्छ्वसनैः शनैर्वा, श्वासप्रयासपवनैः कृतपारणार्थः ॥ १० ॥ अन्वयः-एतत्प्रयाणसमये शेषः विशेषभृत् शिरांसि नमयत् शनैः उसनैः श्वासप्रयासपवनैः कृतपारणार्थः चलाचलतया ऽशेषबलात् भूमिम् उवाह ॥१०॥ व्याख्या-एनत्प्रयाणसमये-एतस्य राज्ञः प्रयाणसमये-विज. यार्थ प्रस्थानकाले शेष:-अनन्तनागः विशेषभृत्-पृथ्वीयथावद्धारणार्थसामातिशयमाश्रयन्नपि शिरांसि-फणामहस्रं नमयन्-प्रह्वीकु. र्वन् अत एव शनैः--मन्दम् उच्छुसनैः-श्रमजनितदीर्घोच्छसिः श्वासप्रयासपवनैः- श्वासग्रहणसंजातप्रयाससमुद्भुतमारुतैः कृतपारणार्थ:कृतभोजनेच्छः सन् चलाचलतया-संभ्रान्ततया ससंम्रममित्यर्थः अशेषवलात्-यावच्छक्तिमवलम्ब्य भूमिम् उवाह-दधार ॥ १० ॥ बुध्या समृद्धमनसाऽप्यनसा श्रुतीनां, छन्दोऽनुचारिवचनै रचनैश्चमूनाम् । राज्ञः समाहितविधेः सविधे विधेयां, मन्त्रीजनस्तदुदधेर्विदधेऽस्य सीमाम् ॥११॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy