________________
१६८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
___अम्बयः-समाहितविधेः अस्य राज्ञः मन्त्रीजनः उदधेः समीपे विधेयां सीमां विदधे । ( कैः ? ) बुध्या श्रुतीना मनसा मनसा छन्दोऽनुसारिवचनैः चमूनां रचनैश्च ॥ ११ ॥ ___ व्याख्या-समाहितविधेः- अनुकूलदेवस्य भाग्यशालिन इत्यर्थः अस्य राज्ञः चक्रवर्निनः वासुदेवस्य वा मन्त्रीजनः उदधेः सविधे समुद्रसमीपे विधेयां करणीयां सीमां-विशेषेण शासनीय (धारणीय) देशमर्यादा विदधे-कृतवान् । कैः कैस्पायरित्याह -बुद्धया औत्पातिक्यादिभेदभिन्नया मत्या श्रुतीनाम् अनसा-शास्त्रोक्तनीतीनां शकटवद् वाहकेनेत्यर्थः श्रुति-शास्त्र-विज्ञेनेतियावत् समुद्रमनसा-उदारचित्तेन अपिश्चार्थे छन्दोऽनुसारिवचनैः-अभिप्रायानुगुणवाक्यैः, चमूनांसेनानां रचनैश्च-यथोचितं सैन्यविभजनैः सैन्यविन्यासैर्वा ।। ११ ।। क्षोणीधवे जयिनि भूर्दिवमा जुहाब,
बाधैर्गभीरनिनदैः स्वविभुप्रसाद्यैः । हित्वा सुधाशनरसान्नरसार्थगोष्टयां,
स्वास्थ्येन तस्थुरमराः क्रमरागिणोऽत्र ॥१२॥ अन्वयः-क्षोणीधवे जयिनि स्वविभुप्रसाद्यः गभीरनिनदैः भूः दिवम् आजुहाव (इव) अमराः सुधाशनरसान् हित्वा अत्र क्रमरागिणः नरसार्थगोष्टयां स्वास्थ्येन तस्थुः ॥ १२ ॥
व्याख्या-जयिनि-विजयशालिनि क्षोणीधवे-पृथ्वीपतौ सति यद्वा क्षोणीधवे जयिनि-विजयमाने सति स्वविभुप्रसाद्यैःस्वः-निजः विभुः-राजा प्रसाद्यो येषां तैः गभीरनिनदैः-गम्भीरध्वनिशालिभिः वाद्यै-नानाविधवादित्रैः कृत्वा भूः-पृथ्वी दिवं-देवलोकं लक्षणया तत्स्थान् देवानित्यर्थः आजुहाव आह्वयतिम्मेवेति लुप्तोत्प्रेक्षावा. चिकोत्प्रेक्षा । अत एव अमरा:-देवाः सुधाशनरसान्-अमृतभोजन