SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः --सबले बले प्रसृमरे तेजनेन सुकृतकर्मणि जवे व्यक्ते भयं नाऽभूत् लोके विरोकरुचिरे सतोके च सुचिरं समाभिः अरुनाभिः जातम् घनेन भलं जातम् ॥ ८ ॥ व्याख्या— सबले=बल- शक्ति - सहिते बले= सैन्ये प्रसृमरे = प्रसरणशीले सति तथा तेजनेन = उत्तेजनेन सुकृतकर्मणि- पुण्यकर्मणि जवे = वेगे व्यक्ते स्पष्टे सति भयं राजभयादिसप्तभेदवती भितिः नाभृत् । किञ्च विशेष रुचिरे - विशिष्टो रोक:- दीप्तिः विरोकस्तेनरुचिरस्तस्मिन् यद्वा विशिष्टो रोको दीप्तिर्यस्य सः अथ वा विगतो रोक:= छिद्रं दूषणमित्यर्थः यस्य स विरोकः स चासौ रुचिरथेति स तस्मिन्, सतोके=तोकैः=अपत्यैः सहिते च सति सुचिरं चिरकालाय समाभिः = संवत्सरैः असमाभिः =असाधारणीभिः जातम् = अभावि । घनेन= मेघेन च अलं= कृष्याद्यनुकूलधर्षणसमर्थेन जातम् = समजनि ॥ ८ ॥ सम्यश्रिया विलसनैर्व्यसनैर्विनैत्र, १६६ निस्सीम भीममहसा रिपुकम्पनैश्च । पुन्नागनागतुरगैः किमु दारलब्ध्या, भूचक्रचङ्कमणकुद नृप एष शक्रः ॥ ९ ॥ अन्वयः -- एष नृपः भूचक्रचङ्कमणकृत् शक्रः किमु । (कैः ? ) सम्यक् श्रिया विलसनैः व्यसनैर्विनैव निस्सीम भीममहसा रिपुकम्पनैश्च पुन्नागनागतुरगैः दारलब्ध्या (पक्षे उदारलब्ध्या) भूचक्रचङ्कमणकृत् अभूत् ॥ ९ ॥ व्याख्या - एष नृपः=श्रीविश्व सेनादि महीपतिः, भूचक्रचङ्क्रमणकृत् = भूमण्डलविहरणशीलः शक्रः इन्द्रः किमु इत्युत्प्रेक्षा तद्वीजमाह --- सम्यकू = चारुरूपेण श्रिया= साम्राज्यलक्ष्म्या पक्षे खाराज्य लक्ष्म्या विलसनैः= विलासैः, व्यसनैर्विनैव = विपद्राहित्येन निःसीमभीम महसा = निःसीमं = मर्यादातीतं यद् भीममहः = शत्रुभयावह तेजस्तेन, रिपुकम्पनैः=शत्रुजनत्रासजननैश्च पुनः पुन्नागनागतुरगैः-पुन्नागाः=
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy