SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्लसन्धानमहाकाग्ये अन्वयः-पूर्वानुरागकलयाऽसकृदिन्द्ररूपाः जनुर्धनुरुपाश्रयणानुरूपाः भूपाः स्तूपा इव उदितमहोन्नतपुण्यकर्म सौधर्मसंगति भवद्विशदस्वरूपाः आसन् ॥३॥ ___ व्याख्या-पूर्वाऽनुरागकलया पूर्व:प्राम्भवीयः अनुरागः= स्नेहः तस्य कलया अंशेन असकृदिन्द्ररूपाः वारंवारमिन्द्रस्वरूपाः जनुर्धनुरूपाश्रयणाऽनुरूपाः जनुषः जन्मत एवं यद्धनुरूपाश्रयणंधनुर्विद्याऽभ्यासस्तस्य अनुरूपाः अनुकूला योग्या इत्यर्थः शूग इति यावत् भूपाः स्तूपाः=देव मन्दिराणीच उदितमहोन्नतपुण्यकर्मसौधर्मसंगतिभवद्विशदस्वरूपा:-उदितं प्राप्तोदयं महोन्नतम् अतिप्रशस्तम् अत्युच्छ्रितं वा यत् पुण्यकर्म-धर्म्य कृत्यं तेन या सौधर्मसंगतिःसुधा-देवसभाऽस्त्यस्मिन्निति सौधर्म:-तदाख्यः कल्पस्तत्रभवोपि तात्स्थ्यात् सौधर्मः सौधर्मेन्द्र इत्यर्थः यद्वा मुधमैव सौधर्मस्तस्य संगत्या संनिधानेन भवद् विशदं रूपं येषां ते तथोक्ता आमन् ॥३॥ साम्राज्यमस्य सुषमासुषमानुभावि. धर्मादरेण परिशीलयतः सलीलम् । यातेऽप्यनेहसि घनेऽथ सुमङ्गला स्त्री, साऽसूतकाशु-भरतं ननु सूनुरत्नम् ॥४॥ अन्वयः--सुषमासुषमाऽनुभावधर्मादरेण साम्राज्यं सलीलं परिशीलयतः भस्य सा सुमंगलास्त्री घनेऽनेह सि याते भरतं सूनु लम् आशु असूनक ॥ ४ ॥ व्याख्या-सुपमासुषमाऽनुभाविधर्मादरेण-मुषमासुषमाया:एकान्तमुषमायाः चतुःसागरोपमकोटाकोटिपमाणक सुषमासुषमाख्य प्रथमारकस्य योऽनुभाव: अनीतिराहित्यादिरूपप्रभावः सोऽस्त्वस्मिन् स तादृशो धर्मः राजधर्मस्तस्यादरेण सत्कारेण अनतिक्रमेणेति भावः साम्राज्य-सार्वभौमत्वं दशलक्षाधिपत्यं वा 'लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके' इत्युक्तेः। सलीलम् लीलया सहितमनायासे.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy