________________
आचार्य श्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-
४ ११॥ नेत्यर्थः परिशीलयतः समन्तात्पालयतः अस्य श्रीमदृषभदेवस्य सा मुमंगला-तदभिधाना स्त्री धने-बहुतरे अनेहसिकाले याते-व्यतीते सति भरतं तदाख्यं सूनुसनं-पुत्र श्रेष्ठम् आशु-शीघ्रम् अस्तक प्रासोष्ट ।। ४ ॥ अन्यापि देववनिता सुकृतान्नितान्तं,
चक्रायुधं प्रसुषुवे वपुषाभिरामम् । नाम्नापि बाहबलिनं फलिनं द्रुमं भूः,
प्राचीव भानुमदितं च जयं शचीव ॥ ५॥ अन्वयः--अन्यापि देववनिता नितान्तं सुकृतात नान्नाऽपि बाहुबलिनं चक्रायुधं वपुषाऽभिरामम् भूः फलिनं द्रुममिव. प्राची उदितं भानुमिव शची जयमिव प्रसुषुवे ॥ ५ ॥
व्याख्या-अन्याऽपि-अपराऽपि द्वितीयापीत्यर्थः देववनिता आदिदेवभार्या मुनन्दा नामधेया नितान्तं सुकृतात्=पुण्यातिशयमहिना नाम्ना अपिना गुणेनापि बाहुबलिनं-तदाख्यं भुजबलशालिन चक्रायुध-चक्राख्यमायुधमस्त्यस्य हस्तादौ चिनरूपेणेति तं तादृशं वपुषा-शरीरेण अभिराम मनोहरं सूनुरत्नमित्यनुषज्यते प्रसुषुवेप्रसूतवती । का कामिव भूः पृथ्वी फलिनं-फलसमृद्धमनवकेशिनमितिभावः द्रुमं वृक्षमिव । प्राची पूर्वदिशा उदितं प्रकाशमान भानु= सूर्यमिव । शची-इन्द्राणी-जयन्तमिवेत्यर्थः । इत्याद्यपक्षीयोऽर्थः।
द्वितीयपक्षे तु-अन्यापि देववनिता श्रीशान्तिनाथप्रभोः पट्टराज्ञी श्रीयशोमती नाम्नी नितान्तं सुकृतात् अतिशयपुण्यप्रभावात् वपुषाऽभिराम मनोहरकलेवरं बाहुबलिन भुजबलवलितं नाना= आख्यया अपि शब्दात् अन्वर्थतागुणेन च चक्रायुध-तदाख्यं मनुरत्नं प्रसुषुवे अजीजनत् । तदुक्तं शान्तिनाथचरिते-गर्भाधानं भजति