SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयामृत सूरिप्रणीता सरणी टीका, सर्ग-४ ७ पक्षे - ततः तदनन्तरं राज्याभिषेकानन्तरं तद्दानवारिमतयः= दानवारिः कृष्णस्तस्मिन्मतिः सद्भावना येषां ते दानवारिमतयस्ते च ते दानवारिमतयश्चेति तद्दानवारिमतयः बभूवुः शेषं पूर्ववत् ॥ १ ॥ प्रीत्याशयं दधति भूरिजनास्तदुच्चं, त्यागं विधाय पुरतः सुरतानुषङ्गे । मिश्रियैव कलयन्त्यकलङ्कभावं, १६१ ते दक्षजातिरुचयो वसुधाभुजोऽपि ॥ २ ॥ अन्वयः - भूरिजनाः प्रीत्याशयं दधति तत् दक्षज्ञातिरुचयः ते वसुधाभुजः पुरतः सुरतानुषङ्गे उच्च यागं विधाय मित्रश्रियैव अकलङ्कभावं कलयन्ति ||२|| व्याख्या - भूरिजनाः सर्वे लोकाः नृपविषये प्रीत्याशयं = प्रीतियुक्तम् आशयं चित्तम् अभिप्रायं वादधति - धारयन्ति प्रमुदितचेतसो भवन्तीत्यर्थः तत् तस्माद्धेतोः दक्षजातिरुचयः = दक्षा=पट्वी जातिः रुचिः = दीप्तिश्च येषां ते यद्वा दक्षजाः = अश्विनीप्रभृतितारा अतिकान्ता रुचिर्येषां ते तादृशाः ते= पूर्वोक्ताः वसुधाभुजः = पृथ्वीपतयः श्रीनाभिराजादयः पुरतः = अग्रतः नगरेषु वा गृहेषु वा सार्वविभक्तिकस्त सि ।। स्यात्पुरः पुरतोऽग्रतः इत्यमरः । अगारे नगरे पुरमितिचामरः । सुरतानुषङ्गे = सुराणां समूहः सुरता तस्या अनुषङ्गे-सम्बन्धे देवानुद्दिश्येत्यर्थः उच्च=महान्तं त्यागं दानं विधाय मित्र श्रियैव = सुहृलक्ष्म्यैव साकं खसाम्राज्यश्रियः अकलङ्कभाव - व्यावर्तक चिह्नाभावेनाऽभिन्न भावं कलयन्ति = संपादयन्ति ।। २ ।। पूर्वानुरागकलया सकृदिन्द्ररूपा, भूपा जनुर्धनुरुपाश्रयणानुरूपाः । सौधर्म संगतिभवद्विशदस्वरूपाः ॥ ३ ॥ स्तूपा इवोदितमहोन्नतपुण्यकर्म !
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy