________________
१६०
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
॥ चतुर्थः सर्गः ॥
.
देवावतारसमये सममेव देवाः,
सेवार्थिनी भगवतः समुपेयुरुाम् । सर्वे ततः सुमनसो विबुधा विशिष्य,
तहानवारिमतयः सततं प्रकृत्या ॥ १ ॥ अन्वयः--देवावतारसमये भगवत: सेवार्थिनः देवाः सममेव उर्ध्या समुपेयुः ततः सर्वे सुमनसः विबुधाः प्रकृत्या विशिष्य तद्दानवारिमतयः बभूवुः ___ व्याख्या-देवावतारसमये-देवस्य शक्रस्य अवतारसमये-प्रभो राज्याभिषेकार्थयागमनकाले भगवतः ज्ञानादिमतः श्रीमदृषभदेवस्वामिनः सेवार्थिन =उपासनाकाङ्गिणः देवाः सममेव-एकदेव इन्द्रेण सहैव वा उल्-श्रीमञ्जिनेन्द्रपदपङ्कजाधिष्ठितभूतले समुपेयुः-समुपाजग्मुः । ततः तदनन्तरं सर्वे निखिलाः सुमनसः समुल्लसितचेतसः विबुधा: देवाः देवसदृशयुगलिनश्च प्रकृत्या स्वभावेन अन्यप्रेरणांविनवेत्यर्थः विशिष्य=विशेषरूपेण तदानवारिमतयः=तदानवारिषु राज्यदानार्थजलेषु तदुपसंग्रहे इति भावः । मति: बुद्धिर्येषां ते तादृशाः बभूवुः। . .. २-३-४-५-६ पक्षेषु-देवस्य प्रभोः राज्ञो वा अवतारसमये भूम्यागमनसमये एव भगवतः ऐश्वर्यादिमतः सेवार्थिनः उपासिपवः केचिद् देवाः समम् सहब ( भगवदधिष्ठितभूमौ समुपेयुः अवत्तेरुः । ततः योग्यसमये सर्वे ते तद्दानवारिमतयः तस्मै राज्यदानार्थ कृतबुद्धयः अथवा तस्मिन् (प्रभौ) दानवारिः-देवः अयम् इति मतियेषां ते तादृशाः बभूवुः ।।