________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-
१ १५९ अन्वयः-कौमारस्फारतेजोदहनम् प्राप्य असहना निर्दग्धभूमौ पादन्यासेऽपि असक्ताः नगनगरकरस्य आग्रहे एषु कावार्ता अवन्या राज्यानि मुक्रवा उपवनपवनैः साहचर्वात् कदयां भ्रान्तिभाज: दर्यामध्ये मृगाक्षीक्षणविषयसुखम् भुञ्जते ॥ ४७
व्याख्या-कौमारस्फारतेजोदहनम् कुमारो युवराजः "जनको युवराजस्तुकुमारो भतदारक इत्यमरः ” यद्वा कुमारयति क्रीड़यतीति कुमारः, कुत्सितः अप्राप्तयौवनत्वात् मारोयस्य स अथ च कुत्सितोनिन्दितोमारः कामदेवो यस्मात् स अथवा को पृथिव्यां मार इति कुमारः तस्मिन् भवम् कौमारं यत् स्फारम् विकटम् अत्युग्रम् तेजः प्रभावम् तदेव दहनो वह्निस्तम् कौमारीयविपुलप्रतापाग्निम् प्राप्य तममिमधिगम्य असहनाः असहिष्णवः तदीयप्रतापानिसोढुमक्षमा निर्दग्धभूमौ तत् प्रतापाग्निप्लुष्टमेदिन्यां स्वकीयभुमौ पादन्यासेऽपि चरगन्यासेऽपि असक्ता अप्रभविष्णवः असमर्थाः नगनगरकरस्याग्रहे नगनगरस्याग्रहे नगस्य पर्वतस्य नगरस्य पुरस्य करस्य राजग्राह्यस्य राज. स्वस्येत्यर्थः तेषां आग्रहे समन्तात् ग्रहणे विषये एषु नगनगरकरेषु का वार्ता का चयाँ पलायनमार्गोऽपि न पश्यन्तीति किमुपुनरेतेषां ग्रहणेषु प्रसक्तिरिति भावः ते पुनः अवन्या भूमेः राज्यानि स्वसाम्राज्यानि मुक्त्वा परित्यज्य उपवनपवनैः उद्यानवातैः साहचर्यात् संबन्धात् कदर्याः कद कृताभ्रान्तिभाजःविवेकविकलाः प्रतीपराजा. न इति शेषः दर्याः कन्दरायाः गिरिगुहाया अन्तः मृगाक्षीक्षणविषयमुखम् मृगाक्ष्या मृगनयनायाः कामिन्याः क्षणम् क्षणमभिव्याप्यविषयसुखम् सांसारिकविषयन्द्रियमुखं भुञ्जते अनुभवन्ति विपक्षपक्षाश्रिता नृपा स्तद्भयादितस्ततः पलायमानाः कचित्कन्दरादौ क्षणम् विषयसुखं चकितचकिता अनुभवन्तीति तात्पर्यम् । अत्र श्लोके स्रग्धरावृत्तम्५८ इति शास्त्रविशारद-कविरनभट्टारकाचार्य-श्रीविजयामृतसूरीश्वरप्रणीतायां सप्तसन्धान-महाकाव्य-सरणी टीकायां तृतीयः सर्गः ॥ ३ ॥