________________
१५८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्भानमहाकाव्ये
देवद्रुदेवमणिदेवलतादयोऽपि,
मन्येऽवतेरुरिह देवचिरानुरागात् ॥ ४७ ॥ अन्वयः--मस्मिन् प्रभो विभवम् माश्रयति प्रभावाभावाः समीहितविधानकृत्तावधाना: देवचिरानुरागात् देवलुदेवमणिदेवलतादयोऽपि इह भवतेरुः इति मन्ये ॥ १७ ॥
व्याख्या--अस्मिन् वर्णनीयनायके प्रभो जिनेन्द्रेऽन्यत्र प्रभावशालिनि यद्वा असिन् जगति प्रभो स्वामिनि विद्यमाने सतीति शेषः तथा च विभवम् ऐश्वर्यम् आश्रयति अधिष्ठिते परमैश्वर्यसम्पन्ने सति प्रभवाः प्रकृष्टेन सर्वतोऽधिकेन भवन्तीति प्रभवाः श्रेष्ठा भावाः पदार्थाः पृथिव्यादयः समीहितविधानकृतावधानाः समीहितस्य अभिलषितस्य विधाने सम्पादने सौलम्ये कृतावधानाः सयलाः आसन्निति शेषः प्रभो विद्यमाने सर्वेऽपि स्थावरजङ्गमादयो भावाःस्वस्वसेवार्थन्तदीप्सि तविधानदक्षा बभूवुरित्यर्थः तथा च देवचिरानुरागात् देवस्य जिनेन्द्रस्य अन्यपक्षे द्योतनात्मकस्य चिरानुरागात् दृढप्रेमतः निरतिशय भक्तिपारवश्यादित्यर्थः देवद्रुदेवमणिदेवलतादयः कल्पवृक्षचिन्ताम णिकल्पलताप्रभृतयः इह प्रभुसनाथितभूप्रदेशे सेवार्थमिति शेषः अवतेरुः अवतीर्णाः स्वर्गादाजग्मुरिति मन्ये जाने उत्प्रेक्षालंकारः॥१७॥ कौमारस्फारतेजोदहनमसहनाः प्राप्य निर्दग्धभूमौ, पादन्यासेऽप्यशक्ता नगनगरकरस्याग्रहे कैषु वार्ता । मुक्त्वा राज्यान्यवन्या उपवनपवनैः साहचर्यात् कदर्या, दर्यामध्ये मृगाक्षीक्षणविषयसुखं भुञ्जते भ्रान्तिभाजः४८ इतिश्री सप्तसंधाने महाकाव्ये श्रीराज्याके कौमा.
रवर्णनो नाम तृतीयः सर्गः ॥३॥