________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-३. १५७ नावलोकितम् अतः संभावयामि अमीषु कल्पवृक्षेषु यत्फलबलम् फल. सम्पत तत् प्रतिपात्रम् प्रतियोग्ययाचकजनम् इष्टम् लभ्यन्न ए ने प्रति पात्रन्दानसमर्था न भवन्तीति प्रभवस्तुप्रतिपात्रं दानं यच्छन्तीति व्यतिरेकालंकारो व्यायः ॥ ४५ ॥ चिन्तामणिर्जलधिमध्यमिवाध्युवास,
कल्पद्रुमा दिवमिवारुरुहुढियेव । नृणां तदाऽनृणकृतां भजनाजनानां,
न्याय्ये परिस्फुरति राज्यबले तदीये ॥४६॥ अन्वयः-तदा अनृणकृतां नृणां जनानां भजनात् तदीये न्याय्ये राज्य क्ले परिन्फुरति हियेव चिन्तामणिर्जलधिमध्यम् अध्युवास इब कल्पद्रुमा दिवम् आरुरुहुरिव ४६
व्याख्या-तदा तस्मिन् समये तदीये वर्णनीयनायकसम्बन्धिनि न्याय्ये न्यायानुगते नीतिमनुसृत्य प्रवर्त्तमाने राज्यबले साम्राज्ये परिस्फुरति जरीजृम्भमाणेसति अनुणकृतां ऋणं कुर्वन्तीति ऋणकृतः न ऋणकृतः अनृणकृतस्तेषामनधमर्णानां जनानाम् लोकानाम् भजनात् सेवनात् चिन्तामणिः चिन्तितार्थप्रदानप्रभविष्णुरत्नम् हियेव लायेव जलधिमध्यम् समुद्रान्तः अध्युवास निवसतिस्म इव यथाऽन्योऽपि लापारवश्याजलमञ्जनं करोति तथायमपि समुद्रे ममज तथा च कल्पद्रुमाः कल्पवृक्षाः हिया इव लज्जया इव कथम्वयं लोके स्वा वमाननं सहामहे इति बुद्धयैव किमिति शेषः दिवम् स्वर्गम् आरुरुहुरिव रोहन्तिस्म किम् ।। सतां माने म्लाने मरणमथवादूरगमनमित्यभियुक्तोक्तिमवलम्ब्यैव स्वर्गयात्रामकुर्वन्निति भावः अत्र श्लोके क्रियोत्प्रेक्षालंकारः ॥ ४६॥ अस्मिन् प्रभो विभवमाश्रयति प्रभावा,
भावाः समीहितविधानकृतावधानाः ।