________________
१५६
महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
व्याख्या-पवनदुर्यवनायधृताः पवनस्य वायोर्योदुर्यवनः असहवेगस्तेन अवधूता विलोकिताः कम्पिता इत्यर्थः दिव्यागमाः सुर पादपाः कल्पवृक्षादयः भूता इव व्यन्तरा इव विषमाकृतया बीभत्सरूपा भयजनकाकृतयः स्फुरन्ति समुल्लसन्ति इति समुल्लसन्तु नाम किन्तु बहुपात्रयोगे अनेकसत्पात्रसमवधाने जाड्यात् स्थावरत्वेन बाह्यज्ञानवैमुख्यात् यत् विषमाकृतित्वम् वैमुख्यत्वम् अर्थिजनपराङ्मुखत्वम् तत् न समुचितम् न योग्यम् उत्तरपदगतस्तत् शब्दः पूर्वपदगतं यत् शब्दमपेक्षत इति भावः यतः वैमुख्याद्धतो रसभेद एव भिन्नरसतैव तथाहि यनेषां कल्पपादपानां दानवीरता आसीत् तदिदानीम् वैमुख्यात भूनाभिनिवेशाच भयानकत्वं पर्यवसितम् भयानकत्वेन परिणमतीति भावः अतद्गुणालंकारः ॥४४॥ जानन्ति दानविधिमत्र न देववृक्षाः,
शाखाश्रयं फलमलं दधते यदेते ॥ दृष्टं कदाचन सपक्षगणेन लभ्यं,
नामीषु तत्फलबलं प्रतिपात्रमिष्टम् ॥ ४५ ॥ अन्वयः-देववृक्षा अत्रदान विधिन्नजानन्ति यदेते शाखाश्रयं फलम् अलन्दधते सपक्ष गणेन लभ्यं कदाच नदृष्टम् यत् प्रतिपात्रम् इष्टम् तत्फलबलम् अमीषु न दृष्टम् ॥ ४५ ॥ व्याख्या-अत्र लोके देववृक्षाः मुरपादपाःदानविधिम् सत्पात्रार्पणव्यापारन्न जानन्ति नावबुध्यन्ति यद्यस्मात् एते कल्पशाखिनः शाखाश्रयं स्कन्धशाखाश्रयं विटपाधीनमित्यर्थः फलम् स्वसंपत् अलम्पर्याप्तम् दधते धारयन्ति स्वाधीनफलाभावात् कस्मैचिदपिदातुं कथं प्रभवेयुरिति भावः सपक्षगणेन पतत्रिसंवेन अथ च स्वकीयवर्गेण आत्मीयजनेनेत्यर्थः लभ्यम् प्राप्यम् फलमिति शेषः कदा च कसिन्नपि समयेन दृष्टम्