________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-1 १५५ निन्दन्ति देवतरवः स्वभवं विवर्ण,
यन्नाम नः स्वरविधौ पटुतालवोऽपि ॥ ४३ ॥ अन्वयः-जनवरसलवत् सदिस्साहानेन मार्गणगणस्य दानन्ददत्सु महाशयेषु देवतरवः विवर्ण स्वभवं निन्दन्ति यत् नः नाम स्वरविधौ पटुतालवोऽपि न ॥ १३ ॥
व्याख्या--जनवत्सलवत् सर्वदयालुवत् सर्वजनस्नेहपारवश्येनेव सदित्साहानेन दानेच्छया आकरणेन मार्गणगणस्य मार्गयति याचते इति मार्गणो याचकस्तस्य गणः संघस्तस्य दानम् ददत्सु दानंयच्छत्सु "शेषत्वविवक्षायां षष्ठी" महाशयेषु महानुभावेषु अतुच्छाशयेषु सत्सु इति भावः देवतरवः कल्पपादपाः विवर्ण मलिनं नितरानिरुपयोग खमवं निजजन्म निन्दन्ति विगर्हयन्ति यत् यस्मात् नः अस्माकम् नाम अभिधानम् स्वरविधौ शब्दप्रयोगविषये पटुतालवोऽपि दक्षत्वलेशोऽपि खकीयाऽभिधेयार्थकणिकाऽपि न लभत इति शेषः प्रभुकर्तुकतादृशनिरर्गलदानकालेऽस्माकनामलेशतोऽपि न सार्थकमिति कल्पवृक्षादयः खमनसि मन्यन्त इति भावः अतिशयोक्तिरलंकारः सर्वपक्षसदृशोऽयमर्थः ॥ ४३ ॥ दिव्या-गमाः पवनदुर्यवनावधूता,
भूता इवातिविषमाकृतयः स्फुरन्ति । जाड्यान्न तत्समुचितं बहुपात्रयोगे,
ऽप्येषां यतः फलबले रसभेद एव ॥ १४ ॥ अन्वयः-पवनदुर्थवनावधूतादि म्यागमा भूता इव अतिविषमाकृतयः पुरन्ति बहुपानयोगेऽपि जाव्यात् तत् न समुचितं यतः एषां फलबले रसमेद पूर्व ॥ ॥