________________
१५४ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये रोतिस्मेति भावः छेदच्छेदनम् सुसूत्रधरणात् सूत्रधारत्वात् तदयस्करादौ तदीयतक्षकादौ लौहकारादौ न च केषांश्चिदपिगुणच्छेदोऽङ्गच्छेदो वा जज्ञे अत्र परिसंख्यालंकारः सर्वपक्षसाधारणम् ॥ ४१ ॥ व्यर्थीकृते सुकृतिना कृतिना स्वकामे,
सोऽर्थी जनः पुनरनन्तधनः परार्थी । काठिन्यधीः कनकवत्यपि देवशैले,
सिन्धोः परत्र विषये न सदर्णवत्त्वम् ॥४२॥ अन्वयः-सुकृतिना कृतिना स्वकामे व्यर्थीकृते सोऽर्थीजनः अनन्तधनः पुनः परार्थी काठिन्यधीः कनकव त्यपिदैवशैले सिन्धोः सदर्णवत्वम् परत्रविषये न॥४२॥ ___व्याख्या-कृतिना कुशलेन विदुषेत्यर्थः सुकृतिना पुण्यशालिना स्वकामे स्वमनोरथे स्वाभिलाष व्यर्थीकृते सति परित्यक्ते सति सततसर्वसौख्यसान्निध्यान्मनोरथाभावे सति इति भावः स अर्थी अर्थप्सुर्जनो याचकवर्गः अनन्तधनः अतुलितसम्पत् पुनः परार्थी परस्मै अर्थो धनं यस्य स परप्रयोजनदानार्थमेव धनसंग्रहो न स्वार्थमिति तत्वम् कनकवत्यपि स्वर्णवत्वेऽपि हिरण्मयत्वेऽपि देव शैले सुमेरुगिरौ काठिन्यधीः कार्कश्यमतिः अन्यत्र स्वर्णवति जने काठिन्यधीः कार्पण्यबुद्धिः मितम्पचित्पन्न सिन्धोः समुद्रस्य सदर्णवत्वम् सदाजलवत्वम् सर्वदैव सजलत्वम् तत इति शेषः परत्रविषये समुद्रादितस्त्र जने सदर्णवत्वम् सदा ऋणवत्वम् अधमर्णत्वम् नासीदिति शेषः प्रभौ शासति केऽपि ऋणिनो न जज्ञिरे इति भावः अत्र यमकः परिसंख्या चालंकारौ । सर्वत्रसमम् ।। १२ ।। दानं ददत्सु जनवत्सलवत्सदित्सा
बानेन मार्गणगणस्य महाशयेषु ।