________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १५३ लक्ष्मीः श्रीः सतीव पतिव्रतास्त्रीय नरोत्तमेभ्यःसत्पुरुषेभ्यः न तु व्यमिचचार कदाचिदपिन जहौ कदापि कसिन्नपि समये जने लोके व्यसनम् विपद् न जातम् न बभूव 'व्यसनं विपदिभ्रंशे दोषे कामजकोपजे इत्यः मरः" आनन्दात् हर्षात निषेवणादे। सेवनादेः कलाव्यसनमेव चतुःषष्टिकलाभ्यासाभिनिवेशमेव ननन्द जजम्भे सर्वपक्षसामान्यम् ॥४०॥ जज्ञे करव्यतिकरः किल भास्करादौ,
दण्डग्रहाग्रहदशा नवमस्करादौ । नैपुण्यमिष्टजनमानसतस्करादी,
__ छेदः सुसूत्रधरणात् तदयस्करादौ ॥ ४१ ॥
अन्ययः---करव्यतिकर; भास्करादौ किल दण्डग्रहाग्रहदशा नवमस्करादौ इष्टजनमानसतस्करादी नैपुण्यम् सुसूत्रधरणात नदयस्करादौ छेदः जज्ञे ॥४॥
व्याख्या-प्रभौ राज्य शासति सतीति पूर्वश्लोकसम्बन्धमनुस्त्याह जज्ञ इति करव्यतिकरः करस्य किरणस्य व्यतिकरो व्यसनम् भास्करादौ सूर्यादिग्रहे न चान्यत्र लोके करस्य अंशोप्तेि राजग्राह्यभागस्य वा व्यतिकरो व्यसनम् विपर्यासो जज्ञे उत्पेदे " बलिहस्तांशवः करा इत्यमरः” दण्डग्रहाग्रहदशा दण्डस्य यष्टिकादेः ग्रहो ग्रहणम् तस्याग्रहदशा दण्डग्रहणस्य निश्चयाभिनिवेशः नवमस्करादौ नवे नूत्ने मस्करादौ वंशादौ नवीनवंशकरीरादौ दण्डग्रहणनिश्चयः "मस्काशतपर्वाचेत्यमरोहैमश्च" जज्ञे बभूव न चान्यत्र जने दण्डस्य दमस्य राजादिकृतनिग्रहस्य यो ग्रहः ग्रहणन्तस्य आग्रहदशा अवश्यकतव्यदशा न जज्ञे न जाता इष्टजनमानमतस्करादौ इष्टजनस्य स्वाभीष्टनायकनायिका दिरूपजनस्य यो मानसो हृदयम् तस्य तस्करादौ चौर्यादौ किश्चिदपि ग्रहणादौ नैपुण्यम् चातुर्यम् स्वप्रणयिहइयग्रहणे कौशलम् न चान्यत्र वस्तुविषयकचौर्यनैपुण्यम् प्रभौ शासति कोऽपि पाटचरकौशल्यत्रक