________________
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धानमहाकाव्ये
अन्वयः --- लोके प्रसृमरं विद्याधनम् आसीत् निधनम् न आसीत् स्तोके श्रमे सपदिवैश्रमणत्वम् आसीत् नराणां तेजोभरात् प्रतिपदम् मणयो रेजुः अत एव ते महोन्नितिम् विभेजुः ॥ ३९ ॥
१५२
wwwwwwww
व्याख्या - लोके जने प्रसृमरं सर्वत्र प्रसरत् सर्वव्यापकम् विद्याधनम् विद्यासम्पत् आसीत् अखिलजना विद्यावन्तः स्तदानीमभवन्निति भावः तथा निधनम् विनाशः अकालमरणादिर्न यद्वा निधनन्निर्धनता दारिद्रयन नेवासीत् स्तोके अल्पे लधीयसि श्रमे आयासे यत्न इति यावत् वैश्रमणत्वम् कुवेरत्वम् धनपतित्वम् आसीत् अल्पायासेनैव महाढ्यत्वमजायतेत्यर्थः अथवा स्तोके तनीयसि श्रमे यत्नेवै इति रञ्जनार्थम् श्रमणत्वम् मुनित्वम् साधुत्वम् आसीत् सर्वेषान्निर्मलपवित्रच - रित्रत्वात् सज्ज्ञानित्वाच्च चारित्र्य वेषग्रहणादेवमुनित्वं अजायत इति तत्वम् जनानां लोकानां तेजोभरात् पुण्यप्रभावात् प्रतिपदम् पदे पदे मणयो रत्नानि रेजुः शुशुभिरे अत एव अस्मादेव पुण्यप्रभावात् ते जनाः महोन्नतिम् सम्यगभ्युदयम् विभेजुः बभ्रुः लभन्ते स्म सर्वत्रसा धारणम् ।। ३९ ।।
तस्मिन् महीं जगति शासति सा सतीव, लक्ष्मीने तु व्यभिचचार नरोत्तमेभ्यः । जातं कदापि न जने व्यसनं ननन्दा
नन्दात् कलाव्यसनमेव निषेवणादेः ||४०||
अन्वयः -- जगति तस्मिन् महीं शासति सा लक्ष्मी: सतीव नरोत्तमेभ्यः न तु व्यभिचचार जने व्यसनम् कदापि न जातम् आनन्दात् निषेवणात् कलाव्यसनमेव ननन्द ॥ ४० ॥
व्याख्या -- जगति विष्टये तस्मिन् प्रभौ महीं पृथ्वीं शासति योगक्षेमं विधायके सति अधिकुर्वतिसति सा प्रसिद्धा नितान्तचञ्चला