________________
१५० महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये व्यवहारमनुभवन् वनेषु उपवनेषु भवनेषु क्रीडासदनेषु सभावनेषु सदौकासु सभामण्डपेषु च रेमे तथा च जनानां लोकानां आश्चर्य विस्मयजनकं उच्चचरितं निर्मलचरित्रम् रचयन् विदधत् अङ्ग इति संबोधने भुजेन बाहुबलेन परममत्युत्कृष्टम् ऐश्वर्य विभवम् बुभुजे भुनक्तिस्म लोकोत्तरमैश्वर्यनुबभूवेति भावः सर्वपक्षसाधारणमवगन्तव्यम्॥३६॥ जाते विवाहसमये न मनाग्मनोऽन्त--
लीनो मलीनविषयेषु महाकुलीनः । द्वेधा पुरन्दरबलाद् वसतिस्म येन,
नारेः पुरन्दरबलाइसतिस्म येन ॥ ३७ ॥ अन्वयः----विवाहसमये जाते न मनाक् मलीनविषयेषु महाकुलीनः अन्तलींनोऽभूदिति शेषः न द्वेधापुरन्दरबलात् स्मये न वसति पुरन्दरबलात् अरेः येन न वसतिस्म ॥ ३७ ॥ ___ व्याख्या-विवाहसमये विवाहविधौ जातेऽपि सम्पन्नेऽपि कृतदारपरिग्रहोऽपि महाकुलीनो महद्धैर्यवान् सत्कुलप्रसूतिर्जिनेन्द्रादिर्मलीनविषयेषु कुत्सितव्यापारेषु सांसारिकविषयवासनादिक्षिताचारेषु मनाक् ईपदपि अन्तलीनः तदासक्तिप्रवणो न विषयानुभवग्लपितचित्तो, न द्वेधापुरन्दरबलात् पुरन्दारयतीति पुरन्दर इन्द्रः यद्वा पुरन्त्रिपुरासुरन्दारयतीति पुरन्दरः शिवः इति द्वेधा द्विविधपुरन्दरयोर्बलमिव बलं यस्य तस्मादेकत्र विलक्षणशक्तिमत्वाद परत्रवशीकृतमदनत्वाच स्मयेऽहंकारे गर्वे न वसतिस्म सत्यपि गर्वसामर्थ्य महाशयत्वाद् गर्विष्ठो न जात इति भावः “वर्तमानसामीप्ये लट्" अथ च इन्द्रवद् बलि. छत्वात् अरेः शत्रोः सकाशात् शत्रुजनमुद्दिश्य मयेऽहंकारे न वसतिम इति न किन्तु वसत्येव शत्रुसम्मुखे गर्विष्ठ एवासीत् इति भावः यमकालंकारः सर्वविषय साधारणमेतत् ॥ ३७॥