________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-
३
१४९
अन्वयः-मोहः ककुभाम् अवमोहकरणम् शुभाशुन्यावर्त्तनं नयन नर्स. नमेव मनःसु क्षोभः सुमनःसु हरेश्चक्रे दरेण वसतिः प्रकम्पे लसतिर्जज्ञे ॥३५॥
व्याख्या-तेषु वर्णनीयचरित्रनायकेषु सत्सु मोहो भ्रान्तिो हनीयकर्म ककुभां दिशामवमोहकारणम् दिग्भ्रान्तिविधायकम् केवलं दिगभ्रान्तिविधायकमेव मोहोऽभून्नचाज्ञानजनितकसिन्नपिविषये गाय जातम्, शुभांशुव्यावर्त्तनं शुभसम्बन्धराहित्यं कल्याणयोगनिरोध इत्यर्थः नयननर्तनमेव नेत्रविलास एव प्रणयिनम्प्रत्येव मानवत्याः कान्ताया नयनविकारादयः सेय॑न्नयननिरीक्षणम् न चान्यत्र शुभां. शो मङ्गलांशस्य व्यावर्तनम् निवर्तनम् , मुमनःसु कुसुमेषु मनःसु क्षोभः मनोमालिन्यम् रात्रौ कमलादिपुष्पेषु विकाशविपर्यासो, न जातु लो. केषु मनःक्षोभः मनोदुःखम्, हरेः विष्णोः चक्रे चक्रास्त्रे चिरेण दरेणभयेन वसतिरधिष्ठानं कृता केवलं विष्णुचक्रास्त्रे विष्णुचक्रविषयकभयसन्निवेशो जातो न च प्रजाजने कृतोऽपिभय सन्निवेशः लसतिः श्लेषः दाहः प्रकम्प नरके न चान्यत्र यद्वा लसतिर्वेपनम् प्रकम्पे महाबाते न च लोके वचनापि भयादिना लसतिर्वेपनम् न जज्ञे सुराज्यत्वात् सर्वनिराबाधमासीत् अत्र श्लोके परिसंख्यालंकारो विलसति ॥ ३५॥ उद्दिश्य कार्यमधिजीवनमेवमहन् ,
रेमे बनेषु भवनेषु सभावनेषु । आश्चर्यमुच्चचरितं रचयञ्जनाना
मैश्वर्यमङ्ग-परमं बुभुजे भुजेन ॥ ३६ ॥ अन्वयः-अधिजीवनमुद्दिश्थैव कार्यम् अर्हन् वनेषु भवनेषु सभावनेषु रेमे जनानाम् आश्चर्यम् उच्चचरितम् रचयन् भुजेन अङ्गपरमम् ऐश्वर्यम् बुभुजे ॥३६॥
व्याख्या-जीवनम् प्राणधारणमुद्दिश्य प्राणयात्रामनुजीव्य लो. कव्यवहारमनुसृत्य कार्यम् लौकिककर्त्तव्यम् अर्हन् कुर्वन् सांसारिक