SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १४३ भूवेत्यर्थः अप-वियोगे - विकृतौ विपरीते - वर्जने - आनन्दे चेति शब्द स्तोममहानिधिः || एवमेवशान्तिनाथपक्षेऽवसेयम् - श्रीनेमिनाथ पक्षेऽपि विवाहोत्सवस्य वर्णनीयत्वेन तत्र, श्रीमहावीरपक्षे च यथास्थितमेव वर्णनम् । श्री पार्श्वनाथ पक्षे - तत्र तस्मिन् समये आप्तदानत्रवलस्य आप्तः प्राप्तोयो दानववलस्तस्य समृदितदैत्यभूत दुराचारिवलस्य बलारिः विरोधकः एष पार्श्वप्रभु न्यायान्तरायकरणम् न्यायस्यनीतेः धर्मप्रचा रस्य अन्तरायकरणम् विघ्नकारकम् रणतः संग्रामतः निवार्य निराकृत्य धात्री जिघृक्षु शिशुपालकराक्षसादि दुर्योधनं यवनभूपम् धात्री धरतिगुणौत्कर्ण्यमितिधात्री तां जिघृक्षुर्ग्रहीतुमिच्छुः स चासौ शिशुपालकराक्षसाच शिशुपालकरोऽक्षः आत्मा यस्य स शिशुतआरभ्य पालकरोरक्षा तत्पर आत्मा यस्येत्यर्थस्तस्य आदिमुरूयः प्रभुः दुर्योधनम् दुःसहम् यवनभूपम् यवननामानम् नृपम् कलिङ्गाधिपतिम् अपा चकार तिरश्वकार दूरी चक्रे || रामपक्षे - तत्र तस्मिन् समये आप्तदानववलस्य समागतराक्षससैन्यस्य बलारिः विनाशकः एषरामः न्यायान्तरायकरणं नीति निवारकं दुराचरिणम् रणतः संग्रामतः निवार्य निराकृत्य धात्रीम् गुणवतीं जिवृक्षुर्ग्रहीतुमिच्छुः यः शिशुपालकरः सर्वदारक्षकः शिशुत एव रक्षा दक्षआत्मायस्य तस्यादिर्मुख्यः दुर्योधनम् दुःसाध्यम् यवनभूपम् म्लेच्छन्पम् जनकराज निरोधकम् यद्वा धात्रीं सीतां जिघृक्षु रादित्सुर्यः शिशुपाल कराक्षसादिदुर्योधनः शिशुमर्भकं पारयति समापयति घातयतीति शिशुपारः स एव शिशुपालकः रलयोरक्यात् स चासौ राक्षसादिः राक्षसप्रभृतिः स एव दुर्योधनः दुःसाध्यः यवनभूपः म्लेच्छ. नृपस्तम् अपाचकार तिरश्चकार रुरोध ||
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy