________________
१४४
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
कृष्णपक्षे-तत्र रुक्मिणी विवाहप्रसङ्गे दानवबलस्य दैत्यबलस्य बलारिस इन्द्र इव दैत्यबल विनाशकारकः एष कृष्णः न्यायान्तराय करणं नीतिनिवारकं रणतः संग्रामात् निवार्य निराकृत्य धात्रीजिघृक्षु शिशुपालकराक्षसादि दुर्योधनम् धात्रीम् रुक्मिणीम् जिघृक्षुः यः शिशुपाल स्तन्नामा नृपस्स एव शिशुपालकः स एव राक्षसादिः निशाचरप्रभृतिस्स च दुर्योधनश्च धार्तराष्टस्तम् शिशुपालराक्षसादि प्रभृतिदुः र्योधनभूपम् यवनभूपम् जरासन्धतनयम् अपाचकार निरासयामास अत्र श्लोक सभङ्गाभङ्गश्लेषालंकारः ॥ ३० ॥ भूमान् विचार्य जनकोऽपिकृतानुरागां,
रुक्मीस्वसार मधिरोप्यधनुर्वृतांताम् ॥ युध्ध्वाबलेनहलिनावपनेकृतेऽदात् ,
देशे हरिः पुनरियायनिजे स कान्तः ॥ ३१ ॥
अन्वयः- भूमान् जनकः कृतानुरागाम् विचार्य रुक्मी धनुः अधिरोप्य वृताम् ताम् स्वसारम् हलिनाबलेन युधध्वावपनेकृतेऽदात् म कान्तः हरिः निजे. देशे पुनः इयाय ॥ ३१ ॥
___ व्याख्या---आदीश्वरादिजिनेन्द्रपक्ष-भूमान् पृथ्वीपतिः रुक्मीस्वर्णवान् जनकः पिता नाभिराजादिः अन्यजिनेन्द्रपक्षे कन्यापिता स्वसारम् स्वस्यसारम् सारभूतम् बलवत् धनुः कोदण्डम् अधिरोप्य अधिरोपयित्वा क्षत्रियाणामस्त्रधारणपूर्वकम्बिवाहविधानमिति सम्प्र. दायः अत एव धनुजिनेन्द्राणामावथ्यबलेन हलिना आकर्षयता युध्ध्वा कृत्रिमयुद्धप्रक्रियाम्प्रदश्य वपने छेदने कृते सति किमपिच्छेदादिसंप्रदाय संपादने सति कृतानुरागाम् संजातप्रेमातिशयाम् वृतां पूर्वमेववरीतां तां कन्यां सुमंगलासुनन्दाप्रभृति अदात् जिनेश्वरायेति शेषः स कान्तः सदारः हरिः हरतिपापमिति हरिजिनेन्द्रः निजदेशे स्वकीयस्थाने अन्यजिनेन्द्रपक्षे निजदेशे इयाय आजगाम ।।