________________
१४२
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
विराजमानम् विमृश्य विचार्य कपुनरेनं वरो लभ्यते इति विचार्य विहित संहितसनिवेशः विहितः कृतः संहितः दृढः सन्निवेश: स्थितिः स्थानम्या येन स कन्यास्वयम्बरमहं कन्यायादुहितुः स्वयम्बरमेव महः उत्सवः तम् कन्यावयम्वरोत्सवम् आरब्धवान् आरभे महउद्धवउत्सव इत्यभरः ।। सर्वपक्षमाधारणम् ।। २९ ॥ तत्राप्तदानव बलस्य बलारिरेष,
न्यायान्तरायकरणं रणतो निवार्य । धात्री जिघृक्षु शिशुपालक राक्षसादि
दुर्योधनं यवनभूपमपा चकार ॥ ३० ॥ अन्वयः-तन्त्र आप्सदानववलस्य बलारिरेष न्यायान्तराय करणं रणतः निवार्य धात्री जिघृक्षुशिशुपालक राक्षसादि दुर्योधनम् यवनभूपम् अपाचकार ॥३॥
व्याख्या-आदीश्वरपक्षे-तत्रादीश्वरप्रभोविवाहमहोत्सवे आप्तदानववलस्य आप्तः प्राप्तः योदानववलः दैत्यवलस्तस्यबलारिः बलभित् एष इन्द्रः न्यायान्तरायकरणं न्यायस्य न्याय्यस्य यद्वा न्यायस्य भो. गस्य अन्तरायकरणं विनसंपादकं प्रतिबन्धकमित्यर्थः रणतः शब्दतः रक्षोविद्रावकशान्तिकारकगाथादितः निवार्य विद्राव्य धात्री जिघृक्षु शिशुपालकराक्षसादि दुर्योधनं यवनभूपम् धात्री उपमाता पालयित्रीति यावत् " धात्रीस्यादुपमातापि क्षितिरप्यामलक्यपीत्यमरः " जिघृक्षुः किमपि ग्रहीतुमिच्छुर्यः शिशुपालोबालावस्थापोषकः स एव शिशुपालकः "स्वार्थेकः" राक्षसः रक्षतीतिरक्षः "औणादिकोऽमुन्" स एव राक्षसः रक्षणकर्ता एषांद्वन्द्वः इति धातृजिघृक्षु शिशुपालकराक्षसास्ते आदिर्यस्य स चासौ दुर्योधनश्च तं यवनम् वेगवद्भूपम् सत्वरकार्य. साधकनृपम् अपाचफार आनन्दयामास अत्यधिकप्रेम्णाप्रीणयाम्ब