SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १४१ कृष्णपक्षे-अभिधया सद्रुक्मिणी सती चासौ रुक्मिणीचेति सक्मिणी विदर्भ विदर्भजनपदे अन्यत्पूर्ववत् ।। श्रीनेमिनाथपक्षे-अन्यदा कस्मिन् अपि समये विदर्भ विगतभये प्रभौ नेमिनाथे कन्यादीप्तिः अभूदिति शेषः कापिलोकातिशयकान्ति; जर्जातेति भावः कथंभूता कृतसुमंगलका कृतं सुमंगलं यया विहितभव्या अतिशैशववयः प्राप्ता अतिशैशवेवयसि यौवनावस्थायां प्राप्ता संगता शैशवानन्तरमधिगता प्रभोर्युक्त्वारम्भसूचिकेत्यर्थः सुनन्दा सुष्टुनन्द. यतिजनानिति सुनन्दा सर्वमोदनदात्री सीता प्रभा सीता लक्ष्मीरिव प्रभादीप्तिर्यस्याः सा समधिकक्षमया अतिसहनशीलया विभूषा विभूपणरूपा मण्डनायमाना सदुक्मिणी स्वर्णसदृशी स्वर्णकान्तिकमनीयेत्यर्थः वरहिता वराश्रेष्ठाचासौ हिताहितप्रयोजिका इति वरहिता अतिशयोपकारकारिणी अहिकजा अहिरेव अहिकः सूर्यस्तस्माजाता इवेति सूर्यकान्तिसहशी यशोदा यशोविधायिनी सर्वाधिकदीप्तिभरेत्यर्थः २८ रागं पुपोषभगवद्वपुषागुणेन, रूपश्रियातिशयिनं जयिनं विमृश्य ॥ कन्यास्वयम्बरमहं सततो गवेशः, प्रारब्धवान् विहित संहित सन्निवेशः ॥ २९ ॥ अन्वयः-- गधेशः भगवद्वपुषागुणेन रूपश्रियातिश यिनं जयिनं विमृश्य रागं पुपोष विहित संहितसनिवेशः सन् कन्यास्त्रयम्वरमहं प्रारब्धवान् ॥२९॥ व्याख्या-गवेशः गोः पृथिव्या ईशः पतिः गवेशः पृथ्वीशः भगवद्वपुषा भगवतां जिनेन्द्राणां वपुषा शरीरेण शारीरिकसौन्दयातिशयेन गुणेन दयादाक्षिण्यादि गुणमहिम्मा च रूपश्रियातिशयिनम् रूपस्य शरीरसन्निवेशस्य श्रीः रूपश्रीस्तया शरीर कान्त्या अतिशय्यते सर्वोत्कर्षण भूयते इति अतिशयितम् तथोक्तम् जयिनम् सर्वोत्कर्षण
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy