________________
१४०
महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाग्ये
व्याख्या-आदीश्वरपक्षेअन्यदा कदाचित् विदर्भ विगतो दर्मः कुशोयत्रतस्मिन यद्वा विशेषेणदर्मो यत्र युगलित्वाद्वनाधिवासतस्त. सिन् विदर्भदेशे कृतसुमंगलका कृतम् विहितं सुमंगलं विवाहपूर्वल. त्र्तव्यकुमारीकृत्यं यया सा कृतसुमंगलका अथ च सुमंगलाभिधाना अतिशैशवश्यः प्राप्ता शैशवादतिक्रान्तमतिशैशवम् " अत्यादयः का. न्ताद्यथै पञ्चम्या" इति समासः अतिशैशवं च तद्वयश्चेति कर्मधारयस्तत् प्राप्ता अतिक्रान्तशैशवा प्राप्तयौवनेत्यर्थः अभिधया संज्ञया सुनन्दा सुनन्दाभिधाना सीता लक्ष्मीस्वरूपा समधिकक्षमया अत्यधिकक्षमाशीलतया विभूषा क्षमाभूषणभूषिता प्रभा कान्तिरूपा सद्रु. क्मिणी शोभनस्वर्णभूषणचिता वरहिता वराय हिता वरणयोग्या अहि. कजा नागकन्येव यशोदा यशोविधायिनी आसीदिति शेषः ॥
श्रीशान्तिनाथपक्षे--विदर्भ विगतः दर्भो भयो यत्र तस्मिन् विदर्भ भयरहिते कृतसुमंगलका विहितसुमङ्गका अतिशैशवत्रयः प्राप्ता समधिगततरुणावस्था सीता प्रभा सीताइव लक्ष्मीरिवप्रभाकान्तिर्यस्याः सा समधिकक्षमया निरतिशयसहिष्णुतया विभूषाजगदवसभूता सद्रुक्मिणी सत् प्रशस्तं रुक्म वर्ण अस्ति अस्याः सा सद्रुक्मिणी यद्वा विभूषायां भूषणे सद्रुक्म यस्याः सा विभूषासद्रुक्मिणी वरहितावरस्य ग्रहण कत्तुः कल्याण प्रयोजिका अभिधया संज्ञया यशोदा यशोमती अभूदिति शेषः ।
श्रीपार्श्वनाथपक्षे- उक्तविशेषणविशिष्टा अभिधया नाम्ना प्रभा प्रभावतीति शेषः ॥
श्रीवीरस्वामिपक्षे-अभिधया यशोदा यशोदा नाम्नीति विशेपोऽन्यत् वर्णितदिशाबसेयम् ॥ रामरक्षे-यथोक्तविशेषणवती अभिधया सीता तन्नाम्नीतिनियोज्यम् ।।