SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयाभृतसूरिप्रणीता सरणी टीका, सर्ग-३ १३९ रिपालनरूपान् अधिगम्य ज्ञात्वा विचार्य "मदीयजन्मनस्तीव्रताचरणमेवफलमिति" निश्चित्य पूर्वे पूर्वभवेऽवशिष्टम् अजीर्णतया किञ्चित् स्थितम् अपि तत् कर्म मनसा हृदयेन ननाम सस्मार तत् तस्मात् अगाधिजातम् गाध्यते लिप्स्यते इति गाधिर्लिप्सा तस्माजातम् इति गाधिजातम् तन्न भवतीत्यगाधिजातम् अयत्नोपनतम् विधिम् अदृष्टम् कर्मेत्यर्थः "देवन्दिष्टम्मागधेयं भाग्यं स्त्रीनियतिर्विधिरित्यमरः" आश्रयन्निव इति ज्ञानम्भजन सेवमानः स प्रभुर्जिनेन्द्रः गाधिजातम् प्रतिठाजनकम् वनम् आलयम् अरण्यम् वा इयाय ययौ । कृष्णपक्षे-जानेः जायतेऽस्मादिति जानिः तस्य जाने: समुद्रस्य जलरूपतया जलस्य च जीवनत्वेन समुद्रस्य तत्वमिति भावः स कृष्णः तीव्रतानुचरणान् अष्टमतपःप्रभृतीन् अधिगम्य प्राप्य कृत्वेत्यर्थः पूर्व प्रथमम् अवशिष्टम् अतिरिक्तम् अधिकम् तत् समुद्रम् जीवनत्वेन क्लीवनिर्देशः मनसा हृदयेन भक्त्या ननाम तत् समुद्रजलम् इति पूर्वोक्तरूपं विधिमनुष्ठानमाश्रयन्निव स्वीकुर्वन्निव ज्ञानम् कृष्णोऽयन्त्रसामान्य इति बुद्ध्या जानन् इति स्मरन् अगाधि जातम् अतिगम्भीरं स प्रतिष्ठमिति भावः वनं समुद्रजलम् स गाधिजातम् अनिम्नं सुप्रचारमियाय ययौ द्वारकाजनप्रचाराय किश्चित् प्रससारेति भावः ॥२७॥ कन्यान्यदाकृत सुमंगलका विदर्भ, प्राप्ताति शैशववयोऽभिधया सुनन्दा ॥ सीताप्रभा समधिकक्षमया विभूषा, __ सद्रुक्मिणा वरहिताहिकजा यशोदा ॥ २८ ॥ अन्वयः-भन्यदा कृतसुमंगलका अतिशैशववयःप्राप्ता अभिधयासुनम्दाकन्या सीता समधिकक्षमया विभूषासदृक्मिणी वरहिताहिकजा यशोदा आसीदिति शेषः ॥ २८ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy