SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये त्यर्थः समभूत् । शेषं प्राग्वत् । ६ श्रीरामपक्षे-अस्य श्रीरामचन्द्रबलदेवस्य प्रिया-पत्नी नाम्ना च शीता कमलानुरूपा-लक्ष्मीरूपिणी न समभूदिति काका समभूदेवेन्यर्थः राघवत्वे भवेत् सीता रुक्मिणी कृष्णजन्मनी. त्यन्यत्रोक्तेः। सा कीदृशीत्याह अपूर्वा, सुमङ्गलवचाः सुमगलसतीत्वेन प्रातःस्मरणीयतया कल्याणावहं वचः-उक्तिर्यस्याः । सा अपरासु-सपत्नीषु नन्दा आनन्दकारिणी । जनानां समये रामचन्द्रस्य बहुपत्नीकत्वात् सीतायाः सपत्नीजनहर्षकारित्वोपपत्तेः । प्रभातिरतिकृत् सुभगा भैमी, अंशुपूर्णवदना=अंशुभिः प्रभाभिःकान्तिभिः पूर्ण भृतं वदनं मुखं यस्याः सा । सदया, यशोदा च विवरणं प्राग्वत् । श्रीकृष्णपक्ष-अस्य श्रीकृष्णवासुदेवस्य कमलानुरूपा लक्ष्मीरूपिणी "राघवत्वे भवेत्सीतारुक्मिणीकृष्णजन्मनीत्यन्यत्रोक्तेः' भैमी रुक्मिणी प्रिया भाा यद्वा भार्याणां मध्ये ऽतिशयप्रेमपात्रीभूता न समभूत् काका समभूदेवेत्यर्थः शेषं पूर्ववत् ॥ २२ ।। तेना-हता वृषभ केशिखरा विरूपा, नव्याहताः समितिसंगतिगुप्तिकायें । वाग्नोदितासमिति संगतिगुप्तिकायें: लक्ष्यस्वरूपमत एव मतं हि तस्य ।।१३ ॥ अन्वयः-तेन वृषभ केशिखराविरूपा अहताः समिति संगति गुप्तकार्ये व्याहता, न समिति संगति गुप्तकार्य वागनोदिता, अत एव तस्य मतं अलक्ष्यस्वरूपम् ॥ २३ ॥ व्याख्या-तेन तीर्थङ्करप्रभुणा वृषभकेशिखराविरूपाः वृषभः वृषः, केशी सिंहः, खरो मृगस्तेषान्द्वन्द्वस्ते, विरूपाश्च निरूपाश्चेत्ये.
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy