SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १३३ पूर्वा-प्रथमपरिणीता ज्येष्ठा सुमंगलवचाः सुमङ्गल इति वचःम्बाचकशब्दो यस्याः सा सुमङ्गलाभिधेयेत्यर्थः। अपरा-द्वितीया सुनन्दातन्नामिकेत्यर्थः । सा कीदृशीत्याह-प्रभाति-रति कृत्-प्रभाति प्रकाशं रतिरागं च पत्यौ करोति या सा यद्वा प्रकर्षण भातीतिप्रभा. अतिरतिकरोतीत्यतिरतिकृत् । अथवा अभया-निजवपुःकान्त्या अति अतिशयेन रतिं कामभार्या कृन्तति धात्वनेकार्थत्वात् जयतीति सा तथोक्ता । सुभगा=पतिवल्लभा. सुदृश्या वा शोभनैश्वर्यशालिनी वा पुनश्च भैमी-भैमीवेति लुप्तोपमा दमयन्तीव रुक्मिणीव वा पतिव्रतेत्यर्थः शीतांशुपूर्णवदना-चन्द्रमुखी, सदया निष्कारणपरदुःखमहाणेच्छावती यशोदा कीर्तिदायिनी । २ शान्तिनाथपक्षे-अस्य श्रीशान्तिनाथप्रभोः नाम्ना यशोदायशोमती नाम्नी प्रिया कमलानुरूपा एव न ततोप्यधिकसौन्दर्यशालिनी समभूत् सा कीदृशीत्याह-अपूर्वा लोकोत्तरशीलसौन्दर्यशालित्वेन चिलक्षणा सुमङ्गलवचाः-सुमंगल-हितावहत्वात् कल्याणं वचःवचनं यस्याः सा पुनः अपरासु-सपत्नीपु नन्दा-नन्दयतीति नन्दा आनन्दयित्री शेषं पूर्ववत् । ३ नेमिनाथपक्षे-अस्य-श्रीनेमिनाथप्रभोः कमलानुरूपेत्या. दिविशेषणविशिष्टा प्रिया पाणिगृहीती न समभूत् किन्तु आजन्मत्रह्मचारितया निष्प्रिय एवायमवतस्थे । ४ पार्श्वनाथपक्षे ---अस्य श्रीपार्श्वनाथप्रभोः प्रिया-सहधर्मिणी नाम्ना प्रभा-प्रभावतीनाम्नी कमलानुरूपा एव न किन्तु तदधिकरू. पवती समभूत् शेषं पूर्ववत् । ५ वीरविभुपक्ष-अस्य श्रीवर्द्धमानप्रभोः प्रिया-भार्या नाम्ना घ यशोदा कमलानुरूपा एच न किन्तु ततोऽप्यधिकरूपशालिनी
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy