________________
१३२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये श्रीनन्दिवर्द्धनः-तदाख्यश्चासौ मतिस्फुरितश्चेति स तथोक्तः नन्दिवद्धनसंज्ञ इत्यर्थः अग्रजा-ज्येष्ठभ्राता मुशली न हलभृत् न किन्तु ख्यातः नवा शबलधीः नेमिरूपश्च । सौमित्रलक्ष्मणकलाकुशलादिना माऽनुजन्मा नवा-नैवाऽऽसीत् ।
श्रीरामपक्षे-अस्य श्रीरामचन्द्रबलदेवस्य अग्रजः ज्येष्ठभ्राता न आसीदिति शेषः सौमित्रिलक्ष्मणकलाकुशलादिनामा अनुजन्मा= कनिष्ठभ्राताऽपि मुशलीहलभृत् च न किन्तु ख्यातः नवाशबलधीः नेमिरूपः श्रीनन्दिवर्द्धनमतिः स्फुरितश्च । सौमित्रिलक्ष्मणेत्यादेश्वा. यमर्थः सौमित्रिः (सुमित्रायांभवत्वात् लक्ष्मणः कलाकुशलः इत्यादीनि नामानि अस्य सः इत्यादिभिः नायते-अभ्यस्य अभिधीयते इत्यर्थ इति वा स तथोक्तः ॥ २१ ॥ अस्य प्रिया न समभूत् कमलाऽनुरूपा,
पूर्वा सुमङ्गलवचास्त्वपरा सुनन्दा । नाम्ना प्रभाति-रतिकृत्सुभगा च भैमी,
शीतांशुपुर्णवदना सदया यशोदा ॥ २२ ॥ अन्वयः---अस्य प्रिया कमलाऽनुरूपा न समभूत? नाना च पूर्वा सुमंगलवचाः । अपरा सुनन्दा ? प्रभाति रतिकृत् सुभगा भैमी शीतांशुपूर्णवदना सदया यशोदा। २ अस्य नान्ना यशोदा यशोमतीग्रिया कमलानुरूपा न समभूत् । अपूर्वा सुमंगलवचाः अपरा सुनन्दा शेषं पूर्ववत् । ३ अस्य कमलाऽनुपूर्वा यशोदा प्रिया न समभूत् । ४ अस्य प्रिया नाना प्रभा-प्रभावती कमलानुरूपा न समभूत् (शे. पू.) ५ अस्य प्रिया नाम्ना यशोदा ६ अस्य प्रिया नाम्ना शीता अंशुपूर्णवदना । ७ अस्य प्रिया भैमी नाम्ना ॥ २२ ॥
व्याख्या-अस्य श्रीऋषभदेवस्य प्रिया-भार्या कमलाऽनुरूपा-3 लक्ष्मीसहशी एव न समभूत् ततोऽप्यधिकरूपवतीत्यर्थः नाम्ना च