________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-३ १३१ कुशलादिनामा अनुजन्माऽभूत् ( इति कृष्णपक्षे ) । अस्य रथने मिरूपः अग्रजः मुशली न हलभृत् न किन्तु ख्यातः अशबलधी श्रीनन्दिः । सौभित्रलक्ष्मणकलाकुशलादिनामा अनुजन्मा न आसीत् अस्य श्रीनन्दिवर्द्धनमतिस्फुरितः अग्रजः (शेषं द्वितीयवत्) । अस्य अग्रजः न (आसीत्) । सौमित्रलक्ष्मणकलाकुशलादिनामाऽनुजन्माऽपि मुशली हलभृञ्च न किन्नु ख्यातः नवाशबलधीः अथ नेमिरूपः श्रीनन्दिवर्धनमतिस्फुरितश्च ॥ २१ ॥
व्याख्या-अस्य श्रीकृष्णवासुदेवस्य अग्रज: ज्येष्ठभ्राता मुशली-मुशलास्त्रभृत्, हलभृत् हलाखधारी न इति न किन्तु मुशल्येव हलभृदेव हलं मुशलं च बलदेवस्य चिह्वभूतमिति नाप्रसिद्धम् नवाशबलधीः नवा नवीना नवनवोन्मेषशालिनीत्यर्थः अशबला-एकरूपा धीः प्रज्ञा यस्य सः प्रतिभाशालीत्यर्थः अथ च नेमिरूपा नेमिषु दुर्गवत्सु प्रशस्तः नेमिरूपः । श्रीनन्दिवर्द्धनमतिः श्रियाः-शोभायाः कीर्तेर्वा, नन्देः आनन्दस्य च बर्द्धने मतिर्यस्य सः श्रियं नन्दि च वर्द्धयतीति श्रीनन्दिवर्द्धना तादृशी मतिर्यस्येतिवा, श्री कल्याणी नन्दिवर्द्धने= मित्रे मतिर्यस्येति स तथोक्तः । स्फुरितः स्फूर्तिशाली । अनुजन्मा कनिष्ठभ्राता गदः 'अनुजो गद' इत्यमरः सौमित्रलक्ष्मणकलाकुशलादिनामा शोभनं मित्रमस्यासौ सुमित्रः शोभनं मित्रं सुमित्रमिति वा स एव ( तदेव ) सौमित्रः (त्रं ) लक्ष्मणः-लक्ष्मीवान् , कलाकुशल इत्यादिमियते-ऽभ्यस्थते इति स तथाऽभूत् ।
नेमिनाथपक्षे-अस्य-श्रीनेमिनाथप्रभोः स्थनेमिरूपा रथनेमिनामा अग्रजः मुशली-मुशलधारी न हलभृत् हलधरो न किन्तु ख्यातःलोके विदितः शवलधीः श्रीनन्दिवर्द्धनमतिः स्फुरितः। सौमित्रलक्ष्मणकलाकुशलादिनामाऽनुजन्मा नवा-नैव आसीत् । ___श्रीवीरप्रभुपक्षे-अस्यबर्द्धमानप्रभोः श्रीनन्दिवर्द्धनमतिम्फु. रित: मति: प्रज्ञा स्फुरिता-स्फूर्तिशालिनी यस्य स मतिस्फुरितः