________________
महोपाध्यायनी मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
तेजो वहन्नसहनो दहनः स्वजन्म
हेतून् ददाह तृणपुञ्जनिकुञ्जमुख्यान् । लेभे फलं त्वविकलं तदयं कुनीते
भस्मावशेषतनुरेष ततः कृशानुः ॥ २० ॥ अन्वयः-दहनः असहनः तेजो वहन स्वजन्महेतून् तृणपुञ्जनिकुञ्जमु. ख्यान् ददाह तु अयं कुनीते: अविकलं तत् फलं लेभे यतः एष कृशानुः भस्मावशेषतनुः जातः ॥ २० ॥
व्याख्या- विनयफलमुक्त्वाऽविनयफलमाह-दहनः अग्निः असहना असह्यः असहिष्णुश्च तेजा-तापकतालक्षणस्वभावं तीव्रतां च वहन्-धारयन् स्वजन्महेतून् स्वोद्भवनिमित्तभूतान् तृणपुञ्जनिकुञ्जमुख्यान्-तृणराशि-लतागृहादीन् ददाह=भसीचकार । तु-किन्तु अयं दहनः कुनीतेः कृतघ्ननायाः अविकलं-सकलं तत् अनिर्वचनीय फलं लेभे लभतेस्म यतः एप कृशानु: आश्रयाशः भस्मावशेषतनुः= भस्ममात्रावशिष्टरूपः जातः स्वयमपि नष्ट इत्यर्थः । समासोक्त्याचायमर्थो ध्वन्यते=असहिष्णुप्रकृतिस्तीव्रतां दधत् स्वोपजीव्यमपि विनाशयति ततश्च तत्कृतघ्नताविजृम्भितदुष्फलं लभमानोऽवसाने स्वयमपि समूलभुन्मुलितोभवति ॥ २० ॥ अस्याग्रजो न मुशली हलभन्न किन्तु,
ख्यातो नवाशवलधी--रथ- नेमिरूपः । श्रीनन्दिवर्धनमतिः स्फुरितोऽनुजन्मा,
सौमित्रिलक्ष्मणकलाकुशलादिनामा ॥ २१ ॥
अन्वयः - अस्य अग्नजः मुशली हलभृत न ( इति ) न, किन्तु ख्यातः नवाशबल धीः अथ ने मिरूपः श्रीनन्दिवर्द्धनमतिस्फुरितः सौमित्रलक्ष्मणकला