________________
“आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १२९ किशलैर्दलैः-पल्लववत्सयनैः सैन्यैः पक्षे पल्लवैः पत्रैश्च । किञ्च सुमनोभरेण पण्डितवर्गेण संपूर्णताम् अनुनयन प्राप्यमाणः कृतया अवनसंपदा-रक्षण सम्पत्या सामोद: सानन्द एवं स्यात् वृक्षपक्ष-पुष्पसमृद्ध्या सम्पूर्णतां प्राप्यमाणः वनसम्पदाधनलक्ष्म्या सामोदःअत्यन्तजनमनोहरमुगन्धिसहितः स्यात् । किशलः पल्लव इति शब्दस्तोममहानिधिः । श्लिष्टोपमा ॥ १८ ॥ नम्रीभवेत् सविटपोऽपि वटो जनन्या,
भूमो लता-परिवृतो निभृतः फलाद्यैः । को-लीनतामुपनतां निगदत्ययं किं,
सम्यग्गुरोविनय एव महत्त्वहेतुः ॥ १९ ॥ ___ अन्वयः-लता-परिवृतः फलाद्यैः निभृतः सचिटपः अपि वटो जनन्यां भूमी नम्रीभवेत् ( किन्तु ) अयं उपनताम् आत्मनः कोलीनता किं निगदति गुरोः सम्यग् विनय एव महत्त्व हेतुः ॥ १९ ॥
___ व्याख्या-लतापरिवृतः बल्लीभिर्याप्तः फलाद्यैः फल=पत्रादिभिः निभृत:=पूर्णः सविटपः-शाखादिसहितः अपि वटः न्यग्रोधः वृक्षः जनन्यां स्वोत्पत्तिहेतुभूतायां भूमौ पृथिव्यां नम्रीभवेत्= पृथ्वीमभिनतोभवतीत्यर्थः परम् अयं वटः उपनतां प्राप्ताम् आत्मनः कौलीनताम्-आभिजात्यं को-पृथिव्यां लीनतां च किं निगदति स्वयं प्रकटयति नैव निगदतीत्यर्थः युक्तं चैतत् यतः गुरोः सम्यम् विनयःशिक्षा एव महत्वहेतुः महिम्नः कारणं भवति । अत्र समासोक्त्या-- ऽप्रस्तुतप्रशंसया वा इदमर्थान्तरं ध्वन्यते यत् धनजनयौवनरूपसम्पभोऽपि जनो विनयाऽबनतो न स्वीयमहत्चं स्वयं प्रकटथति किन्तु तदीयविनय एव तस्याऽऽभिजात्यं महत्त्वं च लोके ख्यापयति । कुमारोऽपि राजराजपुत्रस्तारुण्यमनोहरः सर्वगुणसम्पत्समृद्धः सन्नपि गुरुजनेषु विनयावनत आसीदित्यर्थः ॥ १९ ॥