________________
१२८ महोपाध्यायनीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये एतदीया-पक्षिशावकसंबन्धिनी नभसि अनवलम्बने महाविशाले आकाशेऽपि संगतिः-संगमः संबन्धस्थितिरिति यावत् उच्यते जनः । एतत्सर्व पटुपक्षभाजः पक्षिणः परिश्रमेणैव भवति । तत्कारणेनतस्माद्धेतोः महता-महीयसः प्रतिपत्तिा-सेवा आराधना संगतिर्वा उक्ता कर्तव्यत्वेन नीतिज्ञः कथितेत्यर्थः । किञ्च गांभीर्यशालि अनौद्धत्यशोभिवयसः शरीरावस्थाविशेषस्य किञ्च पटुपक्षभाजः चतुरसहायस्य पोतः शिशुः महाहृदमध्यनीरं समुद्रवदुरवगाहजलाशयमध्यजलमिव नितान्तकठिनमपि बुद्धिगम्यकार्यजातं तरत्यपि तरत्येव " एवार्थकोऽपिः " सदुस्तरमपि चिन्तनीय कार्यजातं बुद्धिप्रभावण सरलयतीति भावः । अत्र-विषय इति शेषः एतदीया प्रभावशालिबालकसम्बन्धि नभसि संगतिः निर्मलगाम्भीर्य संगतिरेव करणत्वेनेति शेषः उच्यते अभिधीयते मनोरमहृदयावधानमेवहेतुत्वेनोत्प्रेक्ष्यते तत् कारणेन महतः सज्जनपुरुषस्य संगतिरुक्ता कथिता महतां संगतिः अवश्यमेवविधातव्येत्यर्थः ॥ १७ ॥ बाल्यं व्यतीत्य तरुणस्तरुणैव साम्यं,
धत्ते फलैरपि कलैः किशलेर्दलै वा । संपूर्णतामनुनयन् सुमनोभरेण,
सामोद एव कृतया-वनसम्पदा स्यात् ॥ १८ ॥ ___ अन्वयः—(कुमारः) बाल्यं व्यतीत्य तरुणः तरुणैव साम्यं धत्ते । फलैः कलैः किशलैदलैश्च । सुमनोभरेण संपूर्णताम् अनुनयन् कृतया वनसम्पदा सामोद एव स्यात् ॥ १८ ॥
व्याख्या-महत्प्रतिपत्तिवान् कुमारः बाल्यं शैशवावस्थां व्यतीत्य अतिक्रम्य तरुणः यौवनस्थः सन् तरुणा=वृक्षेण एव साम्यं= सादृश्यं धत्ते-धारयति कैरित्याह- फलैः परोपकारादिकार्यैः पक्षेसस्यैः प्रसवैरित्यर्थः। कलैः कलामिः पक्षे पक्षिणां मधुराव्यक्तशब्दैः ।