SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतरित्रगोता सरणी टीका. सर्ग-३ १२७ कलांचेष्टाम् अजस्रम्-अनवरतं कलयन् कुर्वन् मुक्तः रम्भः-परित्यक्तराजसभावः त्यक्तारम्भो वा भावितीर्थकरत्वात् मुक्तदम्भ इति पाठान्तरे निष्कपटः असौ कुमारः भुविमहीतले विश्रम्भं विश्वास प्रणयं वा विदधे जनयामास । किञ्च निगमस्य-शास्त्रस्य शमस्यशान्तेश्च लब्धेः-लब्धिरूपस्य अस्य--कुमारस्य तारुण्यम्-यौवनम् अब्धेः-समुद्रस्येव जनतानन्ददायकम् अजनि-अभूत् अत्र हेतुमाहसदावधिसंनिधानात्--सदैव अवधिः-(कुमारपक्षे) नीतिमर्यादा (अब्धि. पक्षे) नीरमर्यादा तस्य संनिधानात सामीप्यात् समीपावस्थानात् । अथ च मुक्तरंभः मुक्तात्यक्ता रंभा तदाख्यदेवांगना येन सः कुमारा. वस्थायां प्रभोः सेवार्थमागच्छतिस्म सेति भावः यद्वा मुक्ता निवृत्तारंभा गौरी अष्टवर्भावस्था यस्य सः अथवा रभ्यते उच्यते इतिरंभः अव्यक्त शब्दः मुक्तः परित्यक्तः रंभः बालावस्थाजनिताव्यक्त शब्दो येन सः । सदावधिसंनिधानात् सदा जन्मत एव अवधेऽवधिज्ञानस्य संनिधानादाश्रयादित्यर्थः ॥ १६ ॥ पोतस्तरत्यपि महाहृदमध्यनीरं, ___ गाम्भीर्यशालि वयसः पटुपक्षभाजः। किञ्चोच्यते नभसिसंगतिरेतदीया, तत्कारणेन महतः प्रतिपत्तिरुक्ता ॥ १७॥ अन्वयः-पटुपक्षभाजः वयसः पोतः अपि गाम्मीर्यशालि महावदमध्यनीरं तरति । एतदीया नभसि संगतिः उच्यते ( जनैः ) तत्कारणेन महतः प्रतिपत्तिः उका ॥ १७ ॥ व्याख्या-पटुपक्षमाजा-उड्डयनसमर्थपक्ष-गरुत--शालिनः त्रयसः पक्षिणः पोतः शिशु लोऽपि गाम्भीर्यशालि-अतिगम्भीरं महाहदमध्यनीरं-नदीनदपानीयमध्यं दुस्तरमपीतिभावः तरति । किञ्च
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy