________________
१२६ महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाव्ये क्रीडा महीशरुचिताढ्युचिताः कुलीने
ऽप्यापीडधारिणि कुमारवरे न कापि । पीडाऽन्ववापि जनरञ्जनमेव जातं,
स्वातन्त्र्यमस्य भुवि तत्पितुराज्ञयैव ॥ १५ ॥
अन्वयः-मापीड़धारिणि कुलीने कुमारवरे महीशरुचिताः उचिता: क्रीड़ाः (कलयति सति) कापि पीडा न अन्ववापि (कुमारण) अस्य स्वातन्त्र्यं भुवि तस्पितुराज्ञयैव (प्राप्त) जनरञ्जनमेव जातम् ॥ १५ ॥
व्याख्या-आपीड़धारिणि-शिरोभूषणशालिनि कुलीने प्रशस्त. कुलसंभवे कुमारवरे महीशरुचिताः राज्ञोऽभिमताः उचिता: शैशवावस्थायोग्याः तास्ता मनोविनोदनसाधनीभूताः क्रीड़ा:-क्रीडनानि बाललीला इत्यर्थः कलयति सतीतिशेषः कापि पीड़ा आयासः न अन्ववापि=न प्राप्ता कुमारणेत्यर्थः किञ्च अस्य कुमारस्य स्वातन्त्र्यं तत्पितुराज्ञयैव-तजनकादेशेनैव प्राप्तं न तु स्वयमेव गृहीतं एवमपि जनरञ्जनं-लोकरञ्जकमेव जातं नत्वितरराजराजपुत्राणामिवापितृदत्तं स्वातन्त्र्यं जनपीडनाय जातमित्यर्थः । ॥ १५ ॥ कौमारकीमपि कलां कलयन्नजस्त्रं,
विस्रम्भमेव विदधे भुवि मुक्तरम्भः । तारुण्यमस्य निगमस्य शमस्य लब्धे
रब्धेरिवाऽजनि सदावधिसंनिधानात् ॥ १६ ॥
अन्वयः- कौमारकी कलाम् अजस्रं कलयन् मुक्तरम्भः ( असौ ) भुवि विश्रम्भमेव विदधे । निगमस्य शमस्य च लब्धेः अस्य तारुण्यम् सदावधिसंनिधानात् अब्धेरिव अजानि ॥ १६ ॥
व्याख्या-कौमारकी-कुमारः पञ्चवर्षीयो बालकस्तत्सम्बन्धिनी