SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १२५ श्रीकृष्णवासुदेवपक्षे-कृष्णः इत्येतत्कृतनामधेयः पयोदविभया प्रभया उपलक्षितः नूतनजलधररुचिरित्यर्थः। स्वमातृशयन क्षितदुजे. नाङ्गे-स्वमात्रा-देवक्या शयने ईक्षितं यद् दुर्जनस्य-दुष्टात्मनः कंस स्याङ्गं तसिन् पार्श्व इव-पशुसमूहवान् इवच्छेदकत्वात् पशूनां समूहः पाच तदस्यास्तीति पार्श्वः अर्शआधच् शेषं रामवत् ।। १३ ।। आराम एव मरुतां तरुवन्नमेरो रारात् स्थितः सपदिवृद्धिमियाय गोणीम् । आमोदिनां सुमनसां निकरैः परीतः, स्फीतोऽभिनन्दितसुपात्रविलासिगात्रः ॥ १४ ॥ अन्वय:--मरुताम् आरामे एव नमेरोः रात् स्थितः (कुमारः) तरु... वत् सपदि गौणी वृद्धिम् इयाय । भामोदिनां सुमनसां निकरैः परीतः स्फीत: अभिनन्दितसुपात्र विलासिगात्रः ॥ १५ ॥ __ व्याख्या-- मरुतां देवानाम् 'मरुतौ पवना-ऽमरौं' इत्यमरा। आरामे लीलोपवने एव नमेरो: छायावृक्षस्य 'छायावृक्षो' नमेरुः स्यादितिशब्दार्णवः यद्वा सुरपुन्नागवृक्षस्य नमेरुः सुरपुन्नाग इति वैजयन्ती। आरा-समीपदेशे 'आरादुर-समीपयो-रित्यमरः स्थितः कुमारः तरुवत् वृक्ष इव सपदि झगिति गौणी-वृक्षपक्षे प्राथमिकी, कुमारपक्षे गुणसंबन्धिनी वृद्धिम्-उपचयम् इयाय-प्राप। आमोदिनां= तीर्थकरजन्मोत्सवामिनयनजनिततोषेण परमानन्दशालिनां सुमनसांदेवानां तरुपक्षे-आमोदिनाम् अत्यन्तमनोहरपरिमलशालिनां सुमनसां-पुष्पाणां निकरैसमूहैः परीतः सेवितः अन्यत्र व्यासः । स्फीता-गुणैः समृद्धः अन्यत्र पुष्प-फलपल्लवादिसमुपचितः अभिनन्दितसुपात्रविलासिगात्रा अभूदिति शेषः ॥ १४ ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy