________________
१२४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
शान्तिनाथपक्षे- 'कृतशान्तिकर्मा' इति विशेष्यम् तस्य कृतंजनितं शान्तिकर्म-अशिवोपशमनरूपकृत्यं गर्भस्थेनापि येन सः अगा एव पित्रा शान्तिः इति कृतनामधेयः श्रीशान्तिनाथप्रसुरित्यर्थः । सर्वज्ञराजिषमा सर्वज्ञराजिषु-सामान्य केवलिषु वृषभः श्रेष्ठः । अन्यत् पूर्ववत् ।
नेमिनाथपक्ष-मिरिति विशेष्यम् । तथा च–व्रतानसिव्रतरूपरथे नेमिरिव नेमिः तदाख्यः इत्यर्थः शशिद्युतिबर्द्धमानःशशिधुतिवत्-चन्द्रकलेव बर्द्धमानः अनुदिनमुत्तरोत्तरमुपचीयमानः पयोदविभया प्रभया हरित् कान्त्याऽञ्जनात्या कृष्णा श्यामल: अञ्जनाभ इत्यर्थः । शेषं पूर्ववत् ।
पार्श्वनाथपक्षे-क्षितदुर्जनाङ्गे स्वमातृशयने पार्श्व इव पाचा तदाख्य इत्यर्थः श्रीपार्श्वनाथ इति यावत् । पयोदविभया प्रभया= नीलिमकान्त्या कृष्णः नीला ऐन्द्रनीलमणिमेचकच्छविरित्यर्थः शशिपुतिवर्द्धमानः चन्द्रकलेववर्धिष्णुः । शेषं पूर्ववत् ।
श्रीमहावीरपक्ष-शशिद्युतिवर्धमानः शशिन इव शुतिर्यस्य स चासौ वर्द्धमानः उत्पत्तेरारभ्यज्ञानादिभिर्वर्धते इति गर्भस्थे भगवति ज्ञातकुलुं धनधान्यादिभिर्वर्धते इति वा सः वर्द्धमानस्तदाख्यः पयोदविभया प्रभया अकृष्णगौरः । शेषं पूर्ववत् ।।
श्रीरामपक्षे-सर्वज्ञराजिवृषभा-सर्वज्ञेपु जिनेषु राजते तच्छीलः सर्वज्ञराजी स चासौ वृषः-धर्मः आहेतप्रवचनप्ररूपितलक्षणस्तेन भाति-शोभते इति सः यद्वा सर्वे ज्ञा!-पण्डितास्तेषां राजौ श्रेण्यां वृषभः श्रेष्ठः पुरुषोत्तमत्वात् । शशिातिवर्द्धमान: चन्द्रकलेवद्धिशील: पयोद विभया प्रभया कृष्णा श्यामलकान्तिः सः प्रसिद्धः रामादाशरथिरामबलदेवः राम इत्येतनामक इत्यर्थः अभूत शेषं पूर्ववत् ॥