________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १२३
अन्वयः - सः सर्वज्ञराजिवृषभः कृतशान्तिकर्मा, व्रतानसि नेमिः, शशि. द्युतिवर्धमानः क्षितदुर्जनाङ्गेस्वमातृशय ने पार्थः पयोदविभया प्रभयाऽकृष्णः सरामः (अभूत्) । २ पक्षे-कृतशान्तिकर्मा ३ बतानसि नेमिः, पयोदविभयाप्रभया कृष्णः । ४ पक्षे-क्षितदुर्जनाङ्गेस्वमातृशयने पावः पयोदविभया प्रभया कृष्णः । ५ पक्षे-शशिधति वर्धमानः, पयोदविभया प्रभया अकृष्णः । ६ पक्षे स रामः सर्वज्ञराजिवृषभः...पयोदविभया प्रभया कृष्णः । ७ पक्षे-कृष्ण: पयोदविभया प्रभया उपलक्षितः, स्वमातृशयनेक्षितदुर्जनाङ्गे पावः शेष सर्वत्र पूर्ववत् ॥ १३ ॥
व्याख्या-सः प्रकृतः सर्वज्ञराजिवृषभः सर्वज्ञेषु-जिनेषु राजते शोभते तच्छीलः सर्वज्ञराजी वृषभो लक्ष्मरूपेणास्त्यस्येति वृषभः सर्व ज्ञराजी चासौ वृषभश्चेति सः यद्वा सर्वज्ञानां राजी श्रेण्यां वृषभः श्रेष्ठः सर्वप्रथमत्वात् स तथोक्तः अथवा सर्वज्ञराजी चासौ वृषभ: उर्वोवृषभ ( बलीवर्द ) लाञ्छनमभूद्भगवतो जनन्या च चतुर्दशानां स्वमानामादौ वृषभोदृष्टस्तेन तदाख्याप्रथमतीर्थकरः। कीदृशः कृतशान्तिका कृतं जगतां शान्तिकर्म=सकलोपसर्गोपशमनलक्षणकृ. त्यं येन सः। व्रतानसि-अहिंसादिव्रतरूपशकटे नेमिः चक्रधारारूपः। शशिद्युति वर्द्धमान:-शशिन: चन्द्रस्येव द्युतिः कान्तिर्वर्द्धमानाऽस्येति सः शशिवद् द्युत्या वर्द्धमान इति वा शशिद्युतिववर्धमान इति वा स तथोक्तः। क्षितदुर्जनाङ्गे-क्षितं-पीडितं दुर्जनानां खलानां शत्रूणाम् अङ्गं येन तत् तस्मिन् राज्ञः पुत्रजनने वैरिणां पीडोत्पत्तेः तादृशे स्वमातशयने खस्य माता-जननी तस्याः शयने शय्यायां पार्श्वः पार्थ कक्षाधोभाग इव | पयोदविभया पयोदस्य-वृष्टजलमेघस्येव विभा-शोभा यस्याः सा तया तादृश्या प्रभया-दीप्त्या अकृष्णा गौरः पयोदकथनात् पयोदानात्-वर्षणात्-परं मेघस्य शुभ्रस्वात् । पुनः स रामः रमणं रामः-आनन्दस्तेन सहितः अभूत् इति प्रथमपक्षीयोऽर्थः।