________________
१२२ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये नाम्नान्वयेन कलितः कलितन्त्रहारी,
पित्रा दधे स्वजनभोजनरञ्जनाद्यैः ॥ निर्बाधसाधनविधिः शतशो जिनार्चानिर्माणनमणि परं कृतकर्मणापि ॥ १२ ॥
अस्त्रयः-कृतकर्मणा पित्रा स्वजनभोजनरञ्जनायैः कलितन्त्रहारी (सः) नाम्नाऽन्वयेन कलितः आदधे । शतशः जिनार्ग निर्माणनमणि निधिसाधनविधिः आपि ॥ १२ ॥
व्याख्या--कृतकर्मणा-पुण्यकर्मवता पित्रा-जनकेन 'द्वादशेऽन्हि पितानामकुर्यादितिशास्त्राज्ञानुसारेण द्वादशे दिने इति शेषः स्वजनभोजनरञ्जनाद्यैः-स्वजनेभ्यः बन्धुजनेभ्यः यद्वा स्वेभ्यः बान्धः वेभ्यः जनेभ्यः माधारणलोकेभ्यः भोजनं भोज्यदानं रञ्जन=संगीतकादिना मनोविनोदनम् आदिना नगरमार्गसंस्कारादिस्तैस्तत्पूर्वकमित्यर्थः कलितबहारी कलिविजृम्भितविनाशनशीलः सः इति शेषः प्रकृतपुत्रः नाम्ना अभिधानेन अन्वयेन-वंशे च कलिता अन्वितः आदधे-चके । किञ्च शतशः बहुशः ‘शतं सहस्रमयुतं सर्वमानन्त्यवाचकम् । इत्युक्तेः । जिना निर्माण नर्मणि-जिनपूजनविधानरूपेषस्करकार्यनिर्वाधसाधनविधिः-निर्वाधः प्रतिवन्धरहितःसाधनविधिःसम्पादनक्रिया आराधनाप्रकारो वा आपि-प्रापि लब्ध इत्यर्थः॥१२॥
अभिधानान्येव सप्तार्थकेनाहसर्वज्ञराजिवृषभः कृतशान्तिकर्मा
नेमिव्रतानसि शशिद्युतिवर्धमानः । पार्श्वः स्वमातृशयने-क्षितदुर्जनाङ्गे
कृष्णः पयोदविभया प्रभया स रामः ॥१३॥