________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३
१२१
व्याख्या-एवम् पूर्वोक्तप्रकारेण सुरासुरकृतामिषवीत्सवश्री:= सुरैः-देवैः असुरैः भुवनपतिविशेषैश्च कृता-सम्पादिता अभिपवोत्सवश्रीःखात्रोत्सवशोभा यस्य सः । अङ्गुष्ठजामृतसमाशनलब्धिपूर्ण:अङ्गुष्ठजाऽमृतं-जिनेन्द्राः स्तन्यपायिनो न भवन्तीति क्रम विजानता नाकनायकेन स्वभक्तिशक्तिवशतः प्रभोरतिनिर्मले हस्ताङ्गुष्ठतले सञ्चारितसुधा तस्य समाशनं-सम्प्स म्यक्. आ-सर्वतो भावेन अशनं:भोजनं पानमितिभावः तद्रूपा लब्धिः अतिशयविशेषस्तया पूर्ण = सम्पन्नः यद्वा अठजामृतरूपं यत् समाशनं शोभनभोजनं तस्य लन्ध्या-लाभेन पूर्ण: भृतः पुष्ट इत्यर्थः जिनेन्द्रदेवः प्रभाव-विभवाऽनुभवत्रयेण-प्रभाव:तेजः शान्तिर्वा सामर्थ्य वा विभवः ऐश्वर्यम् अनुभव: ज्ञानविशेषस्तेषां त्रयेण-त्रिण देवः द्योतमानः सः -- प्रसिद्धः प्रक्रान्तो वा जिनेन्द्रदेवः नन्दभवने-प्रागदक्षिणद्वारपासादे यद्वा सनन्दभवने-नन्दया सम्पच्या-त्रिदिवेशनिदेशेन तीर्थेशपितुर्वे: श्मनि धनपतिमुक्तरूप्य-रत्ननन्दासनभद्रासनाऽनेककोटिमितकाञ्च. नादिरूपसमृद्धि सहिते भवने प्रासादे शशी-चन्द्रमा इव तूर्ण-शीघ्रम् अल्पकालेनेत्यर्थः ववे-वृद्धिम् अवयवोपचथं लेभे। नन्दासंपद्य लिञ्जरे इत्यनेकार्थसंग्रहः । इति तीर्थकरपक्षीयोऽर्थः ।।
बलदेवपक्षे-एवं सुरासुरकृताऽभिषयोत्सवश्रीः-सुरासुरकृतो योऽभिषवस्तद्वदुत्सवश्रीः जन्मोत्सव शोभा यस्य सः अङ्गुष्ठजाऽमृतसमाशनलब्धिपूर्णः अगुष्ठजनितसुधापानोपलब्धिपरिपुष्टः देवः प्रभावविभवा-ऽनुभवत्रयेण सह सनन्दभवने-प्रभूतसम्पत्तिशालिसदेने शशीव तूर्ण ववृधे ।
वासुदेवपक्षे-तृतीयचरणपर्यन्तं रामपक्षवद्याख्याय साम्प्रसिद्धो देवः श्रीकृष्णवासुदेवः नन्दभवने नन्दगोपवेश्मनि प्रभाव-विभवाऽनुभवत्रयेण साई शशीव तूर्णं ववृधे ॥ ११ ॥