________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-३ १३५ कशेषस्तेविरूपा विम्पक्षिणं रूपयन्ति अन्विषन्तीति विरूपाः सर्पाः अथ च विविशब्दं स्वच्छ रूपं वर्णो येषान्ते विरूपाः शंखास्ते, अहता नपरित्यक्ताः किन्तु स्वस्वलाच्छनरूपेण स्वीकृता एव, यथा आदी श्वरस्य वृपः महावीरस्य केशी सिंहः शान्ने : खरः खे रमते प्लवतीति खरो मृगः पार्थस्य विरूपः सर्पः नेमे शंख एवं रूपा इत्यर्थः समि तिसंगतिगुप्तिकार्य समितेः सभायाः या संगतिः सम्मेलनम् तत्र यत् गुप्तिकार्य रहोमंत्रणम् तस्मिन् न व्याहता न हता न प्रतिबद्धा इत्यर्थः किन्तु संगता एव तथा समितिसंगतिगुप्तिकार्य सभासम्मेलनरहोमंत्रणे वाग् वाणी नोदिता प्रेरिता प्रयोजिता न केवलं संख्यापूरणाय तत्र स्थिताः किन्तु स्वमतमपि तत्र प्रकाशयन्तः अत एव वाग्नोदनादेव स्वमतप्रकाशनादेवेत्यर्थःतस्य जिनेन्द्रस्य मतमभिप्रायः अलक्ष्यस्वरूपं पामरैरनधिगम्यस्वरूपम् कार्यादेव तन्मन्त्रितं ज्ञायते न पूर्वमित्यर्थः ।
रामपक्षे-वृषभकेशिखराः तत्तदभिधाना राक्षसाः विरूपा सूर्प. णखा च तेन रामेण आहता आसमन्ताद्विनाशिताः अन्यदुक्तस्वरूपम् । कृष्णपक्षे-वृषभकेशिखराः विरूपाः वृषभासुरकेशिदानवगर्दभासुराः विरूपा अघासुरप्रभुतयश्च आहता विध्वंसिता हिंसिता अन्यत् पूर्ववत्।। अत्रश्लोकेयमकः श्लपश्च ॥ २३ ॥ सम्यकलाकुशलताध्ययनं विनास्य,
लोकेन्यगौरवधियाऽध्ययनं प्रपद्य । सूर्यः करोति भुवनं प्रकटं स्वतस्तत् ,
किं पाटवेऽस्यघटते परसंपरायः ॥ २४ ॥
अन्वय -- लोकेऽन्यगौरवधियाऽध्ययनं प्रपद्य सम्यक् कलाकुशलता अस्य अध्ययनं विनैव. सूर्यः स्वतः तत् भुवनं प्रकटं करोति. अस्य पाटवे परसंपरायः किं घटते ॥ २४ ॥