________________
११८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
लोकाधिपम् ऐक्ष्य-सम्यनिभाल्य भक्त्या अनुरागेण तच्छासनेनअच्युताज्ञया विधिना-विधानेन सहितः विधानपूर्वकमित्यर्थः सरामतीर्थकरसहितम् ईशानं हरिम् ईशानेन्द्रं पुरः अग्रतः पूर्वाऽभिमुखं वा व्यधत्त-विहितवान्-अतिष्ठिपदित्यर्थः इति तीर्थङ्करपचकसाधारणोऽर्थः ॥
श्रीरामचन्द्रपक्षे-सामसिद्धः शक्रः महीमहेन्द्रः इत्युद्दिशन् गवेशांमहीपतीनां संगमने सदसि क्रमोपनतम् अच्युतम् ऐक्ष्य भक्त्या तच्छासनात् विधिना सहितः रामं तदाख्यम् ईशानम् ईशितारं हरि-बलदेवम् अत्र अष्टापदपर्वतस्थस्नानसिंहासने पुरः पूर्वाभिमुखमेव व्यधत्त ।
श्रीकृष्णवासुदेवपक्षेतु-स शक्रः इत्युद्दिशन् गवेशां महीपतीनां गोपालानां वा संगमने सदसि क्रमोपनतम् अच्युतम् ऐक्ष्य भक्त्या तच्छासनात् विधिना सहितः रामम् अभिरामम् ईशानं-द्वारकाया ईशितारं हरि-वासुदेवम् अत्र-गोवर्धनपर्वतवर्तिस्मात्रसिंहासने पुरा पूर्वाभिमुखं व्यधत्त । शब्दार्थोभयश्लेषः । गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयी-दृग्-बाण-दिग्-वाग्भूष्वप्सु भूग्नि च इति मेदिनी ।। ८ ।। क्षीराम्बुधेरिव पयोभिरिहाभिषेकं,
चक्रे क्रमेण मणिकाञ्चनरूप्यकुम्भैः ॥ देवस्य तस्य वरचन्दनचन्द्रलेपा
दभ्यर्चनानि दधतेस्म शची सरूपाः ॥ ९ ॥
अन्वयः-शक्र इह क्षीराम्बुधेरिव पयोभिः (भृतैः) मणिकाञ्चनरूप्यकुभैः क्रमेण देवस्य अभिषेक चक्रे. सरूपा शची (शचीशरूपाश्च ) तस्य वरचन्दनचन्द्रपात् अभ्यर्चमानि दमतेस्म ॥ ९ ॥