________________
आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. व्याख्या-शक्रः इह-अतिपाण्डुकम्बलशिलापीठे क्षीराम्बुधेरिव-क्षीरसागरस्येव पयोभिः क्षीरैरम्बुभिः पयः क्षीरे च नीरे च इत्यनेकार्थसंग्रहः भृतैरिति शेषः मणि-काश्चन-रूप्यकुम्भैः-मणिमय-सौवर्ण-राजतकलसै क्रमेण-परिपाट्या प्रथमं मणिमयेन ततः सौवर्णेन तदनु राजनेन कलसेनेत्येवं क्रमपूर्वकमित्यर्थः देवस्य द्योतनशीलस्य प्रभोः जिनदेवस्य अभिषेकं-स्नानं चक्रे । तदनु सरूपा रूप-सौन्दर्यशालिनी शची-इन्द्राणी प्रशस्ताः शचीशाः इन्द्राः शचीशरूपाश्च शचीसरुपा इत्यत्र तन्त्रम् तेनास्य भङ्गाभङ्गाभ्यामर्थद्वयपरत्वम् श-सयोश्चैकत्वात् । सुगन्धिवाससा सम्मृष्टवपुषः तस्य-देवस्य वरचन्दनचन्द्रलेपात्-वरं-कुङ्कुम, चन्दनं-तैलपर्णिक-गोशीर्ष-हरिचन्दनादिकं चन्द्रः-कर्पूग्स्तैः लेपात्-विलेपनात् अय॑र्चनानि पूजाः दधतेस्म-कुरुतेस्म । शचीपक्षे दधधातोः प्रथमपुरुषैकवचनं, शचीशरूपपक्षे च धाधातोः प्रथमपुरुषबहुवचनरूपम् ।
बलदेवपक्ष-शक्रः-महीमहेन्द्रः इह-अष्टापदपर्वतस्थस्नानपीठे क्षीराम्बुधेः पयोभिरिव मणिकाञ्चन-रूप्यकुम्भैः क्रमेण अभिषेकं चक्रे ततः शचीसरूपाः-शच्याः समान रूपं यासां ताः तथोक्ता राजमहिष्यः सुगन्धिनिर्णिक्तवसनेन अमृष्टगात्रस्य तस्य श्रीरामचन्द्रबलदेवस्य वर-चन्दन-चन्द्रलेपात् अभ्यर्चनानि दधतेस्म ।
वासुदेवपक्ष-शक्रः इह-गोवर्द्धनपर्वतोपरिवत्तिस्नानपीठे क्षीराम्वुधेरिव पयोभिः क्षीरैः भृतैः मणि-काश्चनरूप्यकुम्भैः क्रमेण देवस्य-वासुदेवस्य श्रीकृष्णचन्द्रस्येत्यर्थः देवदत्तो दत्त इतिवत् नामैकदेशग्रहणे नामग्रहणात् अभिषेकं-स्त्रात्रविधि चके । तदनु सुगन्धिनिर्णिक्ता शक्रेण प्रमृष्टकलेवरस्य तस्य-श्रीकृष्णवासुदेवस्य वरचन्दनचन्द्रलेपात् अभ्यर्चनानि-नानाविधपूजाः दधतेस्म ॥ शब्दार्थोभय