________________
भाचार्यश्री विजयामृतसूरिप्रणीता सरणी टीका. श्रीरामचन्द्रपक्ष-हे प्रभो! त्वं नन्द शौर्यादिगुणसमृद्धोभव । नन्दनपदं-पुत्रसम्पाद्यपित्राज्ञापालनादिकार्यस्थानं सफलीकुरुप्प । यशोदा कान्ताऽसौ तव कान्तिः स्नात्राभिषेकस विशेषसरेखभूषाने पथ्यतथ्यकरणात् सुभगाकृतित्वं वर्द्धयतु ।
श्रीकृष्ण वासुदेवपक्षे हे विभो ! त्वं नन्दनन्दनपद-नन्दस्थ गोपाधिपविशेषस्य नन्दनपद-पुत्रपदं सफलीकुरुष्य । यद्वा हे नन्दनन्दन !-नन्दपुत्र ! त्वं पदं वासुदेवव्यवसितं शिष्टाऽनुग्रहदुष्टनिग्रहादिरूपं सफलीकुरुष्व । यशोदा तदभिधाना कान्ता नन्दगोपभार्याऽपि तक कान्ति-रसौ कान्ति=शोभां तेजो वा रसं वीर्य वर्द्धयतु । तथा स्मात्राभिषेकसविशेषसरेखभूषानेपथ्यतथ्यकरणात् सुभगाकतित्वं ब्रजेति शेषः ॥ ७॥ इत्युदिशन् सदसि संगमने गवेशां,
शक्रः क्रमोपनतमच्युतमैक्ष्य भक्त्या ॥ तच्छासनेन विधिना सहितः सराम
मीशानमेव हरिमत्र पुरो व्यत्ति ॥ ८॥
अन्वयः-शक्रः इस्युद्दिशन् गवेशां संगमने सदसि क्रमोपनतम् अच्यु. तम् ऐक्ष्य भक्त्या तच्छासनेन विधिना सहितः सरामम् ईशानं हरिं पुरः न्य. धत्त । रामपक्षे च शक्रः रामम् ईशानं हरिम् अत्र पुरोधत । कृष्णपशे-स शक्रः इत्युद्दिशन् गवेशां संगमने सदसि क्रमोपनतम् अच्युतम् ऐक्ष्य भक्त्या तरुछासनेन सहितः रामम्-अभिरामम् ईशानं हरिम् अत्र पुरो व्यधत्त ॥ ८ ॥
व्याख्या-शका सौधर्मेन्द्रः अनुपदोक्तवासवनामदेव इत्यर्थः इत्युद्दिशन्-इति-पूर्वोक्तप्रकारेण उद्दिशन-उच्चैर्वदन् गवेशां-त्रिदिवेशानामिन्द्राणां संगमने सम्मेलके सदसि-गोष्ठयां क्रमोपनतं-प्रभुचरणयोरानतं तदन्तिकमपस्थितं वा अच्युतम्-एकादश द्वादश देव